SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ शिशुपालवधे युग्मेनाह ___ ॥ यक्षरः॥ लोकालोकी कलोऽकल्ककलिलो लिकुलालकः । कालोऽकलोऽकलिः काले कोलकेलिकिलः किल ॥९८॥ लोकेति ॥ लोकानालोकते इति लोकालोकी त्रैलोक्यदर्शी। कलो मधुरभाषी कल्केन पापेन दम्भेन वा कलिलो न भवतीत्यकल्ककलिलः। 'कल्कः पापाशये पापे दम्भे' इति विश्वः । अलिकुलालकः । अलिकुलनीलमूर्धज इत्यर्थः । कालो नीलवर्णः कालात्मको वा । नास्ति कला यस्य सोऽकलः । निरंश इत्यर्थः । अकलिरकलहः । स्वयमकलहशील इत्यर्थः । काले प्रलयकाले कोलकेल्या वराहलीलया किलति क्रीडति कोलकेलिकिलः । किलशब्दस्तु खल्वर्थे । विव्याधेत्युत्तरेण संबन्धः । ब्यक्षरानुप्रासः ॥ अक्षितारासु विव्याध द्विषतः स तनुत्रिणः । दानेषु स्थूललक्ष्यत्वं नहि तस्य शरासने ॥ ९९ ॥ ॥ युग्मम् ॥ अक्षीति ॥ स पूर्वोक्तगुणविशिष्टो हरिः तनुत्राणि येषां सन्तीति तनुत्रिणो वर्मिणः । 'तनुत्रं वर्म दंशनम्' इत्यमरः । तान् द्विषतः शत्रून् अक्षितारासु नेत्रकनीनिकासु विव्याध प्रजहार । तथाहि तस्य हरेः दानेषु वितरणेष्वेव स्थूललक्ष्यत्वं विपुलविषयत्वम् । 'स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे' इत्यमरः । शरासने शरक्षेपे तु न, किं तु सूक्ष्मलक्ष्यस्वमेव । अतोऽक्षितारावे. धित्वमस्य युक्तमित्यर्थः । अतो वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ ॥ यक्षरः॥ वररोऽविवरो वैरिविवारी वारिरारवः । विववार वरो वैरं वीरो रविरिवौर्वरः ॥१०॥ वरर इति ॥ वरान्रातीति वररो वरप्रदः। 'रा दाने' 'आतोऽनुपसर्गे कः'। अविवरो निर्विवरो नीरन्ध्रः । वैरिणः शत्रून् विवारयति वैरिविवारी । वारीणि रातीति वारिरः पूर्ववत्कः । तस्येवारवो यस्य स वारिरारवः । वरः श्रेष्ठो वीरः शूरः स कृष्णः । 'उर्वरा सर्वसस्याढ्यभूमौ स्याद्भूमिमात्रके' इत्यमरः । तस्यां भव और्वरः पृथ्वीभवः रविरिव वैरं वैरिणां वृन्दं विववार विवारयामास । जघानेत्यर्थः । ब्यक्षरानुप्रासः ॥ मुक्तानेकशरं प्राणानहरभूयसां द्विषाम् । - तदीयं धनुरन्यस्य न हि सेहे सजीवताम् ॥ १०१॥ मुक्तेति ॥ मुक्तानेकशरं क्षिप्तबहुबाणं तस्य हरेरिदं तदीयं धनुः भूयसां
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy