________________
एकोनविंशः सर्गः।
४९३
द्विषां प्राणानहरत् । तथा हि अन्यस्य परस्य सजीवतां न सेहे । अथ वा अन्यस्य धनुषः सजीवतां सज्याकस्वं न सेहे । 'त्रिषु जीवति जीवः स्यान्मौव्या स्वी' इति वैजयन्ती । वाक्यार्थहेतुकं काव्यलिङ्गम् ॥
॥ यक्षरः॥ राजराजी रुरोजाजेरजिरेऽजोऽजरोऽरजाः।
रेजारिजूरजोर्जार्जी रराजर्जुरजर्जरः॥ १०२ ।। राजेति ॥ न जायत इत्यजोऽनादिः । 'अन्येष्वपि दृश्यते' इति जनेर्डप्रत्ययः । न जीर्यते इत्यजरोऽनन्तः । पचाद्यच् । नास्ति रजो यस्येत्यरजा रजोगुणरहितः । रेजन्तीति रेजास्तेजिष्ठाः । 'रेज दीप्तौ' पचाद्यच् । ते च ते अरयश्च तेषां जूरो हिंसनं तेन जातं रजारिजूरजम् तदूर्ज बलं अर्जयतीति रेजारिजूरजोर्जार्जी । अर्जेणिनिः । ऋजुराजववान् । जर्जरो न भवतीत्यजर्जरो दृढः स हरिः आजेरजिरे रणाङ्गणे राजराजी राजश्रेणी: रुरोज बमक्ष । 'रुजो भङ्गे' लिट् । अत एव रराज दिदीपे। यक्षरानुप्रासः ॥
उद्धतान्द्विषतस्तस्य निघ्नतो द्वितयं ययुः।
पानार्थे रुधिरं धातौ रक्षार्थे भुवनं शराः॥१०३ ॥ उद्धतानिति ॥ उद्धतान्हप्तान् द्विषतः शत्रून्निनतो हिंसतः । 'जासिनिप्रहण-' इति सूत्रे निप्रेतिसंघातविपर्यस्तव्यस्तग्रहणोपदेशानिहन्तेरशेषकर्मणि द्वितीयैव । तस्य हरेः शराः । पानार्थे धातौ 'पा पाने' इति धातौ सति रुधिरं, रक्षार्थे धातौ 'पा रक्षणे' इति भुवनं जगचेति द्वितयं ययुः । रुधिरमपिबन् भुवनमरक्षश्चेति श्लेषार्थः । अत्र पानयोरभेदाध्यवसायेन रुधिरभुवनयोस्तुल्ययोगितालंकारः । तत्र पानार्थ इत्यादिवाक्यस्य शत्रुवधेन भुवनमरक्षन्निति सूक्ष्मार्थगर्भत्वात्सौक्ष्म्यं नाम गुणः । 'अतः संकल्पत्वं (?) शब्दानां सौक्ष्यमु. च्यते' इति लक्षणात् ॥ अथ युग्मेनाह
॥ यक्षरः॥ क्रूरारिकारी कोरेककारकः कारिकाकरः।
कोरकाकारकरकः करीरः कर्करोऽर्करुक ॥१०४॥ . ऋरेति ॥ क्रूरानरीन् किरति विक्षिपति इति क्रूरारिकारी । किरतेर्णिनिप्र. त्ययः । को मेरेककारकः एककर्ता। करोतेवुल । कारिका यातनाः करोति दुष्टानामिति कारिकाकरः । 'कारिका यातनावृत्योः' इत्यमरः । 'कृञो हेतु-' इत्यादिना ताच्छील्ये टप्रत्ययः। कारिकाः क्रियाः । धात्वर्थनिर्देशे ण्वुल । तत्कर इति केचित् । कोरकाकारौ करौ यस्य स कोरकाकारकरकः । कमलमुकुलरमणीयपाणिरित्यर्थः । शैषिकः कप्प्रत्ययः । करिणो गजानीरयति क्षिपतीति करीरः।
४२ शिशु