________________
४९४
शिशुपालवधे कर्मण्यण् । कर्करो रणकर्कश इत्यर्थः । 'कर्करो दर्पणे दृढे' इति शाश्वतः । अर्कस्येव रुग्यस्य सोऽगित्युपमा । यक्षरानुप्रासः॥
विधातुमवतीर्णोऽपि लघिमानमसौ भुवः।
अनेकमरिसंघातमकरोभूमिवर्धनम् ॥ १०५ ॥ विधातुमिति ॥ भुवो भूमेलधिमानं लघुत्वं भारावतरणं विधातुमवतीोऽपि भुवि जातोऽप्यसौ पूर्वोक्तगुणो भगवान् हरिः भनेकं बहुमरिसंघातं भूमिवर्धनं भूभारमकरोदिति विरोधः । मृतमकरोदित्यविरोधः । अत एव विरोधाभासोऽलंकारः॥
॥ यक्षरः॥ दारी दरदरिद्रोरिदारूदारोऽद्रिदूरदः ।
दूरादरौद्रोऽददरद्रोदोरुदारुरादरी ॥ १०६ ॥ दारीति ॥ दारी बहुदारवान् । भूमार्थे मत्वर्थीयः । दरेण भयेन दरिद्रो निर्भीकः । 'दरोऽस्त्रियां भये श्वः' इत्यमरः । उदारो महान् , दाता वा । 'उदारो दातृमहतोः' इत्यमरः । अद्विवत् दुःखेन रद्यते दूरदो दुर्भेदोऽद्विदूरदः । 'रद विलेखने' खल प्रत्ययः । अरौद्ः साधूनां सौम्यः । रोदसी रुणद्धीति रोदोरुत् विश्वव्यापी । रुधेः विप् । ददातीति दारुर्दाता । ददातेरोणादिको रुप्रत्ययः । भादरोऽस्यास्तीत्यादरी सन्मार्गादरवान् स हरिः अरिरेव दारु काष्ठमरिदार दूरादेव अददरत् दारयति स्म । दारयतेो चङि 'अस्मृदृत्वरप्रथम्रदस्तृस्पशाम्' इत्यभ्यासस्यास्वम् । अरिदार्विति रूपकमर्थालंकारो ब्यक्षरानुप्रासश्च ॥
एकेषुणा सङ्घतिथान्द्विषो भिन्दन्द्रुमानिव ।
स जन्मान्तररामस्य चक्रे सदृशमात्मनः ॥ १०७ ॥ एकेषुणेति ॥ स हरिरेकेषुणा एकेनैव शरेण सङ्घानां पूरणान्सङ्घतिथान् । सङ्घशः स्थितानित्यर्थः । 'बहुपूगगणसङ्घस्य तिथुक्' इति तिथुगागमादेव ज्ञापकादसंख्यात्वेऽपि सङ्घाडुट् प्रत्ययः । द्विषः शत्रून्दुमानिवेत्युपमा । भिन्दन्वि. दारयन् । जन्मान्तरे रामस्य दाशरथेरात्मनः सदृशं चके। एकशरेणानेकारिदुमभेदस्तु जन्मान्तरभावनाय जात इति भावः। 'बिभेद च पुनस्तालान्सप्तैकेन महेषुणा' इति रामायणे ॥
॥ यक्षरः॥ शूरः शौरिरशिशिरैराशाशैराशु राशिशः ।
शरारुः श्रीशरीरेशः शुशूरेऽरिशिरः शरैः ॥ १०८ ॥ शूर इति ॥ शृणातीति शरारुः दुष्टघातुकः । 'शरारुर्घातुको हिंस्रः' इत्य. मरः । 'शुवन्द्योरारुः' इत्यारुप्रत्ययः। श्रीशरीरस्येशः श्रीशरीरेशः लक्ष्मीप्राणनाथः शूरो वीरः शौरिः कृष्णः अशिशिरैस्तीक्ष्णैः आशा दिशोऽनुवत इत्याशा