SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ एकोनविंशः सर्गः। ४९५ शैदिगन्तव्यापकैः । अश्नोतेः कर्मण्यण् । शरैर्बाणैः अरिशिरः शत्रुशिरांसि । जातावेकवचनम् । राशिशः सङ्घशः आशु शीघ्र शुशूरे जघान । 'शूर हिंसास्तम्भनयोः' इति धातोलिट् । यक्षरानुप्रासः ॥ व्यक्तासीदरितारीणां यत्तदीयास्तदा मुहुः। मनोहतोऽपि हृदये लेगुरेषां न पत्रिणः॥१०९॥ व्यक्तेति ॥ तदा तस्मिन्समये एषां अरीणामरिता शत्रुता मुहुर्यता आसीत् । यद्यस्मात्तस्य हरेरिमे तदीयाः पत्रिणो बाणाः मनो हरन्ति कायादुद्धरन्तीति मनोहृतः । मारका इत्यर्थः । हरतेः क्विप् । मनोज्ञाः प्रतीयन्ते । अत एव मनोहृतोऽपि हृदये मनसि न लेगुर्न लग्ना इति विरोधः । वक्षो निर्भिद्य निर्जग्मुरित्यर्थः । 'हृदयं वक्षसि स्वान्ते' इति विश्वः । विरोधाभासोऽलंकारः ॥ ॥अतालव्यः ॥ नामाक्षराणां मलना मा भूद्भर्तुरतः स्फुटम् । अगृह्णत पराङ्गानामसूनस्रं न मार्गणाः ॥११० ॥ नामेति ॥ भर्तुः स्वामिनो नामाक्षराणां फलेषु लिखितानां मलना मालिन्यं तिरोधानं मा भूदिति बुद्ध्येत्यर्थः । अतः मार्गणाः हरिशराः पराङ्गानां अरिशरीराणामसून्प्राणानगृह्णत । गृहेर्लङ् । न अस्त्रं रक्तम् । रक्ताविलेपस्य आशुभावनिमित्तस्य स्वामिनामाक्षरमालिन्यपरिहारार्थत्वमुन्प्रेक्ष्यते-स्फुटमिति । अत्र तालव्यवर्णाभावादतालव्य इति चित्रभेदः । (इचुयशानां ताल्विति इवर्णस्य तालुस्वेऽपि व्यञ्जनापेक्ष एवायं नियम इति न दोषः॥) आच्छिद्य योधसार्थस्य प्राणसर्वस्वमाशुगाः। ऐकागारिकवद्भूमौ दूराजग्मुरदर्शनम् ॥ १११ ॥ आच्छिद्येति ॥ आशुगा बाणाः योधसार्थस्य वीरवर्गस्य प्राणसर्वस्वं आच्छिद्य ऐकागारिकाश्वौराः । 'चौरैकागारिकस्तेनः' इत्यमरः । 'ऐकागारिकट चौरे इत्यर्थे निपात्यत इत्येके । इकट् प्रत्यये वृद्धिश्च निपात्यते इत्यपरे । तैस्तुल्यमैकागारिकवत् । तुल्यार्थे वतिः। दूराद्भूमावदर्शनमदृश्यतां जग्मुः ॥ भीमास्त्रराजिनस्तस्य बलस्य ध्वजराजिनः। कृतघोराजिनश्चक्रे भुवः सरुधिरा जिनः ॥ ११२॥ भीमेति ॥ जिनो हरिः अवतारान्तरनाम्ना व्यपदेशः । भीमा अस्त्रराजयो यस्य तस्य भीमास्त्रराजिनः । 'इकोऽचि विभक्तौ' इति नुमागमः। ध्वजै राजते यस्तस्य ध्वजराजिनः । ताच्छील्ये णिनिः । कृता घोरा आजियुद्धं येन तस्य कृतघोराजिनः । पूर्ववनुमागमः। तस्य बलस्य सैन्यस्य संबन्धिनी वस्तगणभूमीः सरुधिराः सास्राश्चके । चतुष्पादयमकम् ॥ - १ इयं पलिष्टीकाकृताऽनवहितचेतसा व्यलेखि । अन्येन वा केनचित्प्रमत्तेन प्रक्षिप्ता ।
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy