SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ एकोनविंशः सर्गः। सयोरदनं भक्षकम् । कर्तरि ल्युट् । रक्षांसि च पिशाचाश्च रक्षःपिशाचम् । समाहारे द्वन्द्वैकवद्भावः । मुमुदे जहर्ष। अत्र मोदस्य वमनवाक्यार्थहेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गं तच्च यमकेन संसृज्यते ॥ चित्रं चापैरपेतज्यैः स्फुरद्रक्तशतहदम् । पयोदजालमिव तद्वीराशंसनमावभौ ॥ ७९ ॥ चित्रमिति ॥ अपेतज्यैरपगतमौर्वीकैः । 'मौर्वी ज्या शिञ्जिनी गुणः' इत्यमरः । चापैश्चित्रं विचित्रम् । स्फुरन्ति रक्तान्येव शतहदाः शम्पा यस्मिंस्तत् । 'शम्पा शतहदा हादिनी' इत्यमरः । तत्प्रकृतं वीर आशंस्यतेऽत्रेति वीराशं. सनं भयंकरा युद्धभूमिः । 'सा वीराशंसनं युद्धभूमिर्याऽतिभयप्रदा' इत्यमरः । पयोदजालमिवाबभौ ॥ बन्धौ विपन्नेऽनेकेन नरेणेह तदन्तिके। अशोचि सैन्ये घण्टाभिर्न रेणे हतदन्तिके ॥ ८० ॥ वन्धाविति ॥ इह सैन्ये बन्धौ विपन्ने मृते सति अनेकेन नरेण । अनेकैनरैरित्यर्थः । जातावेकवचनम् । तदन्तिके तस्य मृतस्य बन्धोरन्तिके अशोचि। किंच हता दन्तिनो यत्र तस्मिन् हतदन्तिके सैन्ये घण्टाभिन रेणे न दध्वने । रणतेर्भावे लिट् । अत्र हतदन्तिके इति विशेषणगत्या घण्टानामरणनहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गं यमकेन संसृज्यते ॥ कृत्तैः कीर्णा मही रेजे दन्तैर्गात्रैश्च दन्तिनाम् । क्षुण्णलोकासुभिर्मृत्योर्मुसलोलूखलैरिव ॥ ८१ ॥ कृत्तैरिति ॥ कृत्तैः छिन्नैः दन्तिनां दन्तैर्गात्रैश्च कीर्णा मही रणभूमिः क्षुण्णाः पिष्टा लोकासवो जनप्राणा यैस्तैः मृत्योर्मुसलोलूखलैः कीर्णेव रेजे । 'अयोग्रं मुसलोऽस्त्री स्यादुदूखलमुलूखलम्' इत्यमरः । अत्र मुसलोलूखलैरिति राजदन्तादिपाठेऽपि 'सर्वकूलाभ्र-' इत्यादिसूत्रादेव व्यभिचारज्ञाएकात्परनिपातव्यत्ययः ॥ युद्धमित्थं विधूतान्यमानवानभियो गतः । चैद्यः परान्पराजिग्ये मानवानभियोगतः॥ ८२॥ युद्धमिति ॥ मानवानभिमानवान् वैद्यो युद्धं गतः प्राप्तः सन् इत्थं विधूता अभिभूता अन्ये चैद्यातिरिक्ता मानवा यैस्तान् । विधूतान्यमानवान् अभियः निर्भीकान्परानरीन् अभियोगतोऽभियोगादभ्यवरोधात्पराजिग्ये । जिगायेत्यर्थः । 'विपराभ्यां जेः' इत्यात्मनेपदम् । 'सल्लिटोर्जेः' इति कुत्वम् । अथ भगवदभियोगं पञ्चभिः कुलकेनाह अथ वक्षोमणिच्छायाच्छुरितापीतवाससा । स्फुरदिन्द्रधनुर्भिन्नतडितेव तडित्त्वता ॥८३॥
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy