________________
एकादशः सर्गः।
२७१
तिमिरमिव दधानाः संसिनः केशपाशा
नवनिपतिगृहेभ्यो यान्त्यमूर्वारवध्वः ॥२०॥ लुलितेति ॥ लुलितनयनताराः निद्राकलुषिताक्षिकनीनिकाः, अन्यत्राप्रसन्ननक्षत्राः । 'ऋक्षाक्षिमध्ययोस्तारा' इति विश्वः । वाणीन्दु बिम्बानीवेत्युपमित. समासः । तिमिरमिवेत्यादिलिङ्गात् , अन्यत्र वाणीवेन्दुबिम्बानि तानि क्षामाणि सुरतप्रभाताभ्यां म्लानानि यासां ताः निद्या स्वमेन मुकुलीभावेन क्लान्तानि नीलोत्पलानि अक्षीणीव नीलोत्पलानीवाक्षीणि यासां ताः संसिनः केशपाशांस्तिमिरमिवान्यत्र तु तानिव तिमिरं दधानाः अत एव रजनय इव स्थिताः । अमूरवध्वो वेश्याः। 'वारस्त्री गणिका वेश्या' इत्यमरः । अवनिपतिगृहेभ्यो यान्ति निर्यान्ति । श्लिष्टविशेषणेयमुपमेत्येके । श्लेष एवायमुभयविषयः । उपमा तु प्रतिभामात्रसारेत्यन्ये ॥
शिशिरकिरणकान्तं वासरान्तेऽभिसार्य
श्वसनसुरभिगन्धिः सांप्रतं सत्वरेव । व्रजति रजनिरेषा तन्मयूखाङ्गरागैः
परिमलितमनिन्द्यैरम्बरान्तं वहन्ती ॥ २१ ॥ शिशिरेति ॥ एषा रजनिर्वासरान्ते रात्रौ शिशिरकिरणश्चन्द्रस्तमेव कान्तमभिसार्याभिसृत्य । स्वार्थे णिच् । सांप्रतं श्वसनैस्तत्कालवातैर्निश्वासैश्च सुरभिगन्धिः सुगन्धिः अनिन्द्यैर्मनोहरैर्मयूखैरेवाङ्गरागैः परिमलितं व्याप्तं वासितं चाम्बरान्तं नभःप्रान्तं वस्त्रान्तं च वहन्ती भजन्ती सत्वरेव व्रजति । अवेन्दुतन्मयू. खादीनां कान्तत्वाङ्गरागत्वादिरूपणावगमादेकदेशविवर्ति रूपकम् ॥
नवकुमुदवनश्रीहासकेलिप्रसङ्गा
दधिकरुचिरशेषामप्युषां जागरित्वा । अयमपरदिशोऽङ्के मुश्चति स्रस्तहस्तः
शिशयिषुरिव पाण्डं म्लानमात्मानमिन्दुः ॥ २२ ॥ नवेति ॥ अधिकरुचिरयमिन्दुर्नवकुमुदवनश्रियो विकासः परिहासश्च स एवं केलिस्तस्यां प्रसङ्गादासङ्गादशेषामप्युषां सकलामपि रात्रिम् । 'विभावरी नक्तमुषा शर्वरी' इति विश्वः । अत्यन्तसंयोगे द्वितीया । जागरित्वा जागरणं कृत्वा शिशयिषुः शयितुमिच्छुरिव । शेतेः सन्नन्तादुप्रत्ययः । सस्तो हस्तो नक्षत्रविशेषः, करश्च यस्य स सन् अपरदिशः पश्चिमदिशोऽके समीपे, उत्सङ्गे च पाण्डं पाण्डुवर्ण म्लानं क्लान्तमात्मानं स्वशरीरं मुञ्चति । दक्षिणनायकः कयाचित्सह विहृत्य श्रान्तः कस्याश्चिदङ्के शेते तद्वदिति भावः । अत्र प्रहासकेल्यङ्ककरसंसनादिव्यवहारादिन्दुकुमुदवनश्रीपश्चिमानां नायकत्वप्रतीतेः समासोक्तिरलंकारः। विशेषणसाम्यं तूपलक्षणमित्यलंकारसर्वस्वकारः । सा चोत्प्रेक्षासंकीर्णा ॥