________________
२७०
शिशुपालवधे इति मातरिश्वा । 'श्वन्नुक्षन्-' इत्यादिना औणादिको निपातः । विविक्तैरमलैरनानैश्च मालतीनां जातीकुसुमानाम् । 'सुमना मालती जातिः' इत्यमरः । रजोमिः परागैः । करीषैरिवेति भावः । अवचूावध्वस्य । संयुज्येति भावः । ज्वलयत्युद्दीपयति । प्राभातिकमालतीवातस्पर्शात्पुनरुद्बुद्धो मदन इत्यर्थः ॥
अनिमिषमविरामा रागिणां सर्वरात्रं
नवनिधुवनलीलाः कौतुकेनातिवीक्ष्य । इदमुदवसितानामस्फुटालोकसंप
नयनमिव सनिद्रं घूर्णते दैपमर्चिः ॥ १८ ॥ अनिमिषमिति ॥ इदं पुरोवर्ति अस्फुटा सूर्यतेजोभिभवान्मन्दायमाना आलोकसंपत्प्रकाशसंपत्तिर्यस्य तत् , अन्यत्र निद्राभिभवादनुबुद्धविषयावधानशक्तिकं दीपस्येदं दैपमर्चिाला । 'ज्वालाभासोर्नपुंस्यचिः' इत्यमरः । सर्वस्यां रात्राविति सर्वरात्रम् । 'पूर्वकाल-' इत्यादिना समासः । 'अहःसर्व-' इत्यादिना समासान्तः 'रात्राहाहाः पुंसि' इति पुंलिङ्गता । अत्यन्तसंयोगे द्वितीया । अविरामा अविच्छिन्नाः रागिणां कामिनां, कामिनीनां च । 'पुमान्स्त्रिया' इत्येकशेषः। नवा निधुवनलीलाः सुरतविलासान् । 'व्यवायो ग्राम्यधर्मश्च रतं निधुवनं च सः' इति कोशः । कौतुकेन न निमिषतीत्यनिमिषं यथा तथा । पचाद्यच् । कुटादित्वास गुणः । अतिवीक्ष्य अत एव सनिमुदवसितानां गृहाणां संबन्धि । 'गृहं गेहोदवसितं वेश्म सद्म निकेतनम्' इत्यमरः । नयनमिवेत्युत्प्रेक्षा । चूर्णते भ्रमति ॥ विकचकमलगन्धैरन्धयन्भृङ्गमालाः
सुरभितमकरन्दं मन्दमावाति वातः । प्रमदमदनमाद्यद्यौवनोदामरामा
रमणरभसखेदस्वेदविच्छेददक्षः ॥ १९ ॥ विकचेति ॥ प्रमदमदनाम्यां हर्षमन्मथाभ्यां माद्यन्तीनां यौवनेनोद्दामानां च रामाणां स्त्रीणां रमणरभसखेदेन सुरतसंरम्भश्रमेण यः स्वेदस्तस्य छेदे हरणे दक्षो वातः प्रभातमारुतः विकचकमलगन्धैभृङ्गमाला अन्धयन्नन्धाः कुर्वन्मोहयन् । अन्धयतेः 'तत्करोति-' इति ण्यन्ताल्लटः शत्रादेशः । सुरभितः सुरभी. कृतो मकरन्दो यस्मिन्कर्मणि तद्यथा तथा मन्दमावति प्रचलति । अत्र वृत्त्यनुप्रासोऽलंकारः । श्लेषः प्रसादः समता माधुर्य सुकुमारता । अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः ॥' इति आचार्योक्ता दश गुणाः प्रायेणात्र संभवन्तीति निपुणैरुन्नेयाः ॥
लुलितनयनताराः क्षामवकेन्दुबिम्बा रजनय इव निद्राक्लान्तनीलोत्पलाक्ष्यः ।