________________
२७२
शिशुपालवधे सरभसपरिरम्भारम्भसंरम्भभाजा
यदधिनिशमपास्तं वल्लभेनाङ्गनायाः। वसनमपि निशान्ते नेष्यते तत्प्रदातुं
रथचरणविशालश्रोणिलोलेक्षणेन ॥ २३ ॥ सरभसेति ॥ अधिनिशं निशायाम् । विभक्त्यर्थेऽव्ययीभावः । सरभसः सत्वरः परिरम्भ एवारम्भो व्यापारस्तत्र संरम्भस्तद्भाजा वल्लभेनाङ्गनायाः संबन्धि यद्वसनमपास्तं तद्वसनं निशान्ते प्रभातेऽपि रथचरणं चक्रं तद्वदिशालायां श्रोणौ लोलं सतृष्णमीक्षणं यस्य तेन वल्लभेन प्रदातुं नेप्यते । अत्र कसनाप्रतिदानस्य श्रोणीक्षणलौल्यहेतुकत्वात्काव्यलिङ्गम् ॥
सपदि कुमुदिनीभिमीलितं हा क्षपापि
क्षयमगमदपेतास्तारकास्ताः समस्ताः । इति दयितकलत्रश्चिन्तयन्नङ्गमिन्दु
वहति कृशमशेषं भ्रष्टशोभं शुचेव ॥ २४ ॥ सपदीति ॥ सपदि सद्यः कुमुदिनीभिर्मीलितम् । भावे क्तः । हा हन्त क्षपा रात्रिरपि क्षयमागमत् । ताः समस्तास्तारका अपेता इति शुचा शोकेन चिन्तयन्दयितकलत्रः प्रियभार्य इन्दुः कृशमशेषं निःशेषं यथा तथा अष्टशोनं नष्टप्रभमङ्गं वहति । कलत्रप्रियस्य युगपत्सकलकलवनाशे महाशोको भवतीति भावः । अत्रेन्दोः प्रभातप्रयुक्ताङ्गकाश्यशोभाशयोयुगपत्कुमुदिन्यादिसकलकलवनाशनिमित्तहेतुकत्वमुत्प्रेक्ष्यते ॥
व्रजति विषयमक्ष्णामंशुमाली न याव
त्तिमिरमखिलमस्तं तावदेवारुणेन । परपरिभवि तेजस्तन्वतामाशु कर्तु
प्रभवति हि विपक्षोच्छेदमग्रेसरोऽपि ॥ २५ ॥ व्रजतीति ॥ अंशुमाली सूर्यः । ब्रीह्यादित्वादिनिप्रत्ययः । यावदक्ष्णां विषय भूमि न व्रजति । दृश्यत इत्यर्थः । तावदेवारुणेनानूरुणाखिलं तिमिरमस्तमपास्तं परेषां परिभवि तिरस्कारकम् । 'जिघृक्षि-' इत्यानादिना इनिप्रत्ययः । तेजः प्रतापं तन्वतां प्रथयतामने सरतीत्यग्रेसरः पुरःसरोऽपि । 'पुरोऽग्रतोऽग्रेषु सर्तेः' इति टप्रत्ययः। विपक्षस्य शत्रोरुच्छेदं कर्तुमाशु प्रभवति शक्नोति हि । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ विगततिमिरपकं पश्यति व्योम याव
झुवति विरहखिन्नः पक्षती यावदेव ।