________________
४४४
शिशुपालवधे अन्यूनेति ॥ अन्यूनोन्नतयो महोच्छ्रायाः अतिमानपृथवोऽत्यन्तविपुलाः अत एव पृथ्वीधरश्रीभृतः शैलशोभाधारिण इति निदर्शनालंकारः । कनकावलीभिरावरणहेतुहेमराजिभिः करणैः । सुदाम्ना पर्वतेनैकदिशः सौदामन्यो विद्युतः । तेनैकदिक्' इत्यण्प्रत्यये डीप् । ताभिर्दामभिरिव सौदामनीदामभिविद्युल्लताभिरुपमां सादृश्यं तन्वन्तः । तडित्सौदामनी विद्युत्' इत्यमरः । 'अतु. लोपमाभ्याम्-' इति सदृशवचनस्यैव निषेधादिह सादृश्यवाचित्वात्तृतीया । उपलसन्तः शृङ्गाराः सिन्दूरादिमण्डलान्येव लेखायुधानि सुरधनूंषि येषां ते तथोक्ताः । 'शृङ्गारः सुरते नाट्ये रसे च गजमण्डने । लेखो लेख्ये सुरे' इति च विश्वः । कालियस्य कालियनागस्य कायवत्कालवपुषः कृष्णदेहाः। गजा एवा. म्भोमुचो मेघाः काले योग्यकाले वर्षन्तो मदाम्बु मुञ्चन्तः पासून्शमं शान्तिमानयन्प्रापयन् । रूपकालंकारः । शार्दूलविक्रीडितं वृत्तमुक्तम् ॥
इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितशिशुपालवध. काव्यव्याख्यायां सर्वकषाख्यायां सप्तदशः सर्गः ॥ १७ ॥
अष्टादशः सर्गः।
अथानिमसर्गे तुमुलयुद्धवर्णनाय सेनयोर्मेलनं तावदाहसंजग्माते तावपायानपेक्षौ सेनाम्भोधी धीरनादौ रयेण । पक्षच्छेदात्पूर्वमेकत्र देशे वाञ्छन्तौ वा विन्ध्यसह्यौ निलेतुम् ॥१॥
संजग्माते इति ॥ अपायोऽपगमो युद्धादपसरणं तस्यानपेक्षौ तमनिच्छन्तौ । युद्धादनिवर्तिनावित्यर्थः । ईक्षतेः पचाद्यचि नन्समासः । धीरनादौ गम्भीरघोषौ तौ सेनाम्भोधी सेनासागरौ । पक्षच्छेदात्पूर्व पश्चादसंभवादिति भावः । एकत्र देशे एकस्थाने निलेतुं वस्तुम् । 'लीङ् गतौ' इति धातोस्तुमुन्प्रत्यये गुणः । वाञ्छन्ताविच्छन्तौ सह्यविन्ध्यौ वा सह्यविन्ध्याख्यौ पर्वताविव । 'वा स्याद्विकल्पोपमयोः' इति विश्वः । संजग्माते मिलितवन्तौ । संपूर्वाद्च्छतेरकर्मकाल्लिटि 'समो गम्यच्छि-' इत्यादिना आत्मनेपदम् । अत्र सह्यविन्ध्ययोः सपक्षयोरप्येकत्र मिलनस्याप्रसिद्धस्य संभावनामात्रेणोक्तत्वादुपमानाप्रसिद्धेर्नोपमा किंतूत्प्रेक्षेति संक्षेपः । अस्मिन्सर्ग शालिनी वृत्तम् । 'शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकः' इति लक्षणात ॥
'सेनाम्भोधी संजग्माते' इत्युक्तं तत्संगतिप्रकारं तावद्वर्णयतिपत्तिः पत्तिं वाहमेयाय वाजी नागं नागः स्यन्दनस्थो रथस्थम् । इत्थं सेना वल्लभस्येव रागादङ्गेनाङ्गं प्रत्यनीकस्य भेजे ॥२॥
पत्तिरिति ॥ पत्तिः पदातिः पत्ति पदातिम् । ‘पदातिपत्तिपदगपादातिकपदातयः' इत्यमरः । एयाय प्राप । आपूर्वादिणो लिट् । वाज्यश्वो वाहमश्वमेयाय ।