________________
सप्तदशः सर्गः।
४४३ समस्थलीकृतविवरेण पूरिता महीभृतां बलरजसा महागुहाः। रहस्त्रपाविधुरवधूरतार्थिनां नमःसदामुपकरणीयतां ययुः ॥६६॥
समेति ॥ समस्थलीकृतानि विवराणि निम्नस्थानानि येन तेन बलरजसा पूरिताः महीभृतां भूधराणां महागुहा । रहो रहसि । अत्यन्तसंयोगे द्वितीया । त्रपया विधुराणां विलक्षाणां वधूनां रतं सुरतमर्थयन्त इति तदर्थिनां नभःसदां सुराणामुपकरणीयतामुपकारकत्वं ययुः । तासां रजःपूरणात्पुंसामन्धकरणत्वादिति भावः । 'कृत्यल्युटो बहुलम्' इत्यनीयरः कर्बर्थता । अत्र रजःपूरणस्य विशेषणगत्योपकारकहेतुत्वात्काव्यलिङ्गभेदस्तथोपकारकत्वासंबन्धेऽपि संबन्धोते. रतिशयोक्तिरिति संकरः ॥ गते मुखच्छदपटसादृशी दृशः पथस्तिरो दधति घने रजस्यपि । मदानिलैरधिमधुचूतगन्धिभिर्द्विपा द्विपानभिययुरेव रंहसा ॥६७॥
गत इति ॥ छाद्यतेऽनेनेति छदः । मुखस्य छदो मुखच्छदः । 'पुंसि संज्ञायां घः प्रायेण' इति घप्रत्ययः 'छादेर्धेऽद्वयुपसर्गम्य' इति ह्रस्वः । स चासौ पटश्च तत्सादृशीं तत्सादृश्यम् । ब्राह्मणादित्वात्ष्य-प्रत्यये 'षिद्गोरादिभ्यश्च' इति ङीष् । स च 'व्यजः पित्करणादीकारो बहुल'मिति वामनवचनाद्वैकल्पिकः । गते प्राप्ते । गजानां युद्धपूर्वकालेषु मुखावरणकारणात्तत्सदृशे घने सान्द्रे रजसि दृशो दृष्टेः पथो मार्गास्तिरोदधति छादयति सत्यपि । अधिमधोरधिकमकरन्दस्य चूतस्येव गन्धो येषां तैः । 'उपमानाच' इति गन्धस्येत्ये तदेकान्तग्रहणं तु व्यभिचारि । मदानिलैरभिज्ञानैर्द्विपा गजाः द्विपान्गजान्प्रति रंहसा वेगेनाभिययुरेव । अत्र तिरोहितदृष्टेरभियानविरोधस्य मदानिलैः परिहाराद्विरोधाभासोऽलंकारः ॥ मदाम्भसा परिगलितेन सप्तधा गजाञ्जनः शमितरजश्चयानधः। उपर्यवस्थितघनपांसुमण्डलानलोकयत्ततपटमण्डपानिव ॥ ६८ ॥
मदाम्भसेति ॥ सप्तधा 'कराकटाभ्यां मेढाच नेत्राभ्यां च मदस्रतिः' इति पालकाप्ये । सप्तभिः स्रोतोभिः परिगलितेन स्रुतेन मदाम्भसा अधः शमितो रजश्चयो यैस्तान उपर्यवस्थितानि तथैव स्थितानि घनानि सान्द्राणि पांसुमण्डलानि पूर्वोत्थरजःपुना येषां तान्गजाआनो लोकस्तता उपरि वितताः पटमण्डपा येषां तानिवेत्युत्प्रेक्षा । अलोकयत् ॥ । अन्यूनोन्नतयोऽतिमात्रपृथवः पृथ्वीधरश्रीभृत
स्तन्वन्तः कनकावलीभिरुपमां सौदामनीदामभिः । वर्षन्तः शममानयन्नुपलसच्छृङ्गारलेखायुधाः काले कालियकायकालवपुषः पांसून्गजाम्भोमुचः॥६९।। इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये यङ्के यदुवंश
क्षोभणो नाम सप्तदशः सर्गः ॥ १७ ॥