________________
४४२
शिशुपालवधे कनक्षमा विलोकनानर्हाः दिश एवाङ्गना दिगङ्गनाः शरीरिणां प्राणिनां क्षणमी. षत्कालं परिहरणीयतामगम्यतां ययुः । तस्मात् 'मलवद्वाससं न संविशेदेवे. त्यादिनिषेधादिति भावः । श्लिष्टपरम्परितरूपकम् ॥ निरीक्षितुं वियति समेत्य कौतुकात्पराक्रमं समरमुखे महीभृताम् । रजस्ततावनिमिपलोचनोत्पलव्यथाकृति त्रिदशगणेः पलाय्यत ६२
निरीक्षितुमिति ॥ त्रिदशगणदेवगणैः समरमुखे रणारम्भे महीभृतां राज्ञां पराक्रमं निरीक्षितुं वियति कौतुकात्समेत्य रजस्ततौ रजःस्तोमे न निमिषन्त्यनिमिषाणि पक्ष्मपातरहितानि । मिषेः पचाद्यच् । कुटादित्वान्न गुणः । तेषां लोच. नोत्पलानां व्यथाकृति दुःखकारिण्यां सत्याम् । कृजः किप् । पलाय्यताधाव्यत । भावे परापूर्वादयतेर्लङि तङ् 'उपसर्गस्यायतो' इति रेफस्य लत्वम् । अन्न लोचनोत्पलानां व्यथाऽसंबन्धेपि संबन्धोक्तेरतिशयोक्तिभेदः ॥ विषङ्गिणि प्रतिपदमापिवत्यपो हताचिरातिनि समीरलक्ष्मणि । शनैः शनैरुपचितपकभारिकाः पयोमुचः प्रययुरपेतवृष्टयः ॥ ६३ ॥
विषङ्गिणीति ॥ विषङ्गिणि विपक्ते अत एव हताचिरातिनि विरमिता. चिरद्युतिनि समीरलक्ष्मणि वातकेतौ रजसि प्रतिपदं प्रतिक्षणमपोऽम्भांस्यपिबत्याकर्षति सति अत एवापेतवृष्टयो निवृत्तवर्षाः पयोमुच उपचिताः प्रवर्धिताः पङ्कभारिकाः पङ्कभरणानि येषां ते उपचितपङ्कभारिकाः सन्तः । 'पर्यायाहणो. त्पत्तिषु ण्वुल' इत्यर्हणाथै ण्वुल प्रत्यथः । अर्हणं च करणसामर्थ्यम् । अत एव भाराच्छनैः शनैः प्रययुः प्राप्ताः । अत्र पयोमुचां पङ्कभरणासंबन्धेऽपि तत्संब. न्धोक्तेरतिशयोक्तिः ॥ नभोनदीव्यतिकरधोतमूर्तिभिर्वियद्तैरनधिगतानि लेभिरे । चलचमूतुरगखुराहतोत्पतन्महीरजानपनसुखानि दिग्गजेः॥६४॥
नभोनदीति ॥ नभानदीव्यतिकरेणाकाशगङ्गाया अवगाहेन धौतमूर्तिभि. क्षालिताङ्ग वियद्गतैः खेचरः अत एव दिग्गजैरनधिगतान्यननुभूतचराणि चलद्भिश्चमूतुरगखुरैराहतम् अत एवोत्पतदुद्गच्छन्महीरजस्तेन स्नपनमभिषेचनं तेन यानि सुखानि तानि लेभिरे । कुञ्जराः पांसुवर्षेणेत्युदाहृतम् । अत्रापि दिग्गजानां रजःस्नपनासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तः ॥ गजबजाक्रमणभरावनम्रया रसातलं यदखिलमानशे भुवा । नभस्तलं बहुलतरेण रेणुना ततोऽगमत्रिजगदिवेकतां स्फुटम् ६५
गजेति ॥ यद्यस्माद्गजबजानामाक्रमणभरेण पादक्षेपगौरवेणावनम्रया भुवा. खिलं रसातलं पातालमानशे व्याप्तम् । यद्यस्माच्च नभस्तलं बहुलतरेण रेणुनानशे ततः कारणात्रिजगजगत्रयम् । 'तद्धितार्थ-' इत्यादिना समाहारे द्विगुः । 'द्विगुरेकवचनम्' । एकतां भूलोकतामिवागमत् । स्फुटमित्युत्प्रेक्षायाम् ॥