________________
सप्तदशः सर्गः ।
४४१
महाभारते – 'खियो जारेण तुष्यन्ति गावः स्वच्छन्दचारतः । कुञ्जराः पांशुवर्षेण ब्राह्मणाः परनिन्दया ॥' इति । दिगन्तलम्बिनो मेघाः सेनारजोमेलनाद्वहुलीबभूवुरित्यर्थः । अत्र दिगन्तेषु तन्मेघेषु च दन्तित्वतन्मदत्व रूपणात्समस्तव स्तुवर्ति सावयवरूपकं मुखमेव मुखमिति श्लिष्टपरम्परितमिति संकरः । अजिहतेति, ओहाङो लङि तङ् 'श्नाभ्यस्तयोरातः' इत्याकारलोपः 'अदभ्यस्तात्' इत्यदादेशः ॥ शिरोरुहैर लिकुलको मलैरमी मुधा मृधे मृषत युवान एव मा । बलोद्धतं धवलितमूर्धजानिति ध्रुवं जनाञ्जरत इवाकरोद्रजः ॥५८॥
शिरोरुहैरिति ॥ अलिकुल कोमलैर्भ्रमरवृन्दमनोरमैः शिरोरुहैः केशैरुपलक्षिता अमी राजानो युवान एव सुधा वृथा मृधे युद्धे । 'मृधमास्कन्दनम् ' इति युद्धपर्यायेष्वमरः । मा मृबत न म्रियन्ताम् । म्रियतेर्माङि लुङि 'न माङ्योगे' इत्यडभावः । 'उश्च' इति सिचः कित्त्वान्न गुणः । इति । इत्थमालोच्येत्यर्थः । बलोद्धतं रजः कर्तृ । धवलितमूर्धजान्धवलीकृतकेशाञ्जनान् जरत इवाकरोत् । वृद्धानिवाकरोदित्यर्थः । ध्रुवमित्युत्प्रेक्षायाम् | अत्रेवशब्दस्यावधारणार्थत्वान्न तेन पौनरुक्त्यम् । 'इवौपम्येऽवधारणे' इति विश्वः । ' प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि' इत्यमरः । ' जीर्यतेरनृन्' इत्यतॄन्प्रत्ययः ॥ सुसंहतैर्दधदपि धाम नीयते तिरस्कृतिं बहुभिरसंशयं परैः । यतः क्षितेरवयवसंपदोऽणवस्त्विषां निधेरपि वपुरावरीषत ॥ ५९ ॥
सुसंहतैरिति ॥ धाम तेजो दधदपि दधानोऽपि । तेजन्यपीत्यर्थः । परैरन्यैः सुसंगतैः सुसंहतैः परैरैक्यं गतैश्च बहुभिस्तिरस्कृतिं नीयते । असंशयं निश्चितम् । अर्थाभावेऽव्ययीभावः । कुतः । यतोऽणवः सूक्ष्माः क्षितेरवयवसंपदो रेणुसमृद्धयः त्विषां निधेः सूर्यस्यापि वपुरावरीषत आच्छादितवत्यः । वृङो लुङि 'वृतो वा' इतीटो दीर्घः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ द्रुतद्रवद्रथचरणक्षतक्षमातलोल्लसद्व हुलर जोवगुण्ठितम् । युगक्षयक्षण निरवग्रहे जगत्पयोनिधेर्जल इव मनमाबभौ ॥ ६० ॥
द्रुतेति ॥ द्रुतं शीघ्रं द्रवतां धावतां स्थानां चरणैश्वकैः क्षतात्क्षुण्णात्क्षमातलादुल्लसता पतता बहुलेन सान्द्रेण रजसावगुण्ठितमाच्छादितं जगद्युगक्षयक्षणे कल्पान्तकाले निरवग्रहे निष्प्रतिबन्धे पयोनिधेर्जले मग्नमिवावभावित्युत्प्रेक्षा ॥ समुल्लसद्दिनकरवक्रकान्तयो रजखलाः परिमलिताम्बरश्रियः । दिगङ्गनाः क्षणमविलोकनक्षमाः शरीरिणां परिहरणीयतां ययुः ६१
समुल्लसदिति ॥ समुल्लसन्ती दिनकरस्येव वक्रस्य कान्तिर्यासां ताः रजो रेणुरेव रज आर्तवमासामस्तीति रजस्वलाः । ' रजः कृष्या सुतिपरिषदो वलच्' इत्यादिना मत्वर्थीयो वलच्प्रत्ययः । धूलिधूसरा उदक्यश्च । परिमलिताः परितः संजातमला अम्बरस्याकाशस्येवाम्बरस्य वस्त्रस्य च श्रीर्यासां ताः अत एवाविलो -