________________
अष्टादशः सर्गः
1
४४५ 'वाजिवाहार्वगन्धर्व' इत्यमरः । नागो गजो नागमेयाय । स्यन्दनस्थो रथस्थमेयाय, न तु व्युत्क्रमेण, धर्मयुद्धत्वादिति भावः । इतीत्थमुक्तरीत्या सेना रागाद्ररागाद्रतिरागाच्च । अङ्गेन स्वाङ्गेन पत्यादिना, करचरणादिना च वल्लभस्य प्रियतमस्येव प्रत्यनीकस्य प्रतिबलस्य । 'वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्' इत्यमरः । अङ्ग पत्यादिकं, करचरणादिकं च भेजे यथा कान्ता कान्तस्योरुमूरुणा करं करेण मुखं मुखेन भजति तथा सेना प्रतिसैन्यस्य पत्ति पत्तिना अश्वमश्वेनेत्यादिक्रमेण भेजे न तु व्युत्क्रमेणेत्यर्थः । वल्लभस्येवेत्युपमया समरसुरतयोः समरसत्वं व्यज्यते ॥
रथ्याघोषैर्बृंहणैर्वारणानामैक्यं गच्छन्वाजिनां हेषया च । व्योमव्यापी संततं दुन्दुभीनामव्यक्तोऽभूदीशितेव प्रणादः ||३||
रथ्येति ॥ संततं व्योमव्यापी गगनस्पृक् अन्यत्र सर्वगत इत्यर्थः । दुन्दुभीनां रणभेरीणां प्रणादो महाघोषः । 'उपसर्गादसमासेऽपि णोपदेशस्य' इति णत्वम् । रथानां समूहो रथ्या । 'त्रिषु द्वैपादयो रथ्या रथकट्या रथव्रजे' इत्यमरः । 'खलगोरथात्' इति यत्प्रत्ययः समूहार्थे । तासां घोषैः वारणानां बृंहणैः कण्ठघोषैः । 'बृहणं गजगर्जितम्' इति वैजयन्ती । वाजिनामश्वानां द्वेषया हेषणेन च । 'हेपा हेषा च निस्वनः' इत्यमरः । ' गुरोश्च हलः' इत्यप्र
ये टापू । ऐक्यं मेलनं गच्छन् । अन्यत्र तत्त्वंपदार्थशोधनादद्वितीयतां गच्छन् । ईशिता ईशयिता ईश्वरत्वोपाधिमान्परमात्मेव । ईशेस्तृच् । अव्यक्तोऽभूत् अयं दुन्दुभिघोष इति दुर्भेदो बभूव । अन्यत्र जीवेश्वरोपाधिविलयादयमीश्वरोऽयं जीव इति भेदरहितोऽभूदित्यर्थः । अत्रैक्यगमनस्य विशेषणगत्या अव्यक्तहेतुत्वात्काव्यलिङ्गमुपमाङ्गमिति संकरः ॥
रोपावेशाद्गच्छतां प्रत्यमित्रं दूरोत्क्षिप्तस्थूलबाहु ध्वजानाम् । दीर्घास्तिर्यग्वैजयन्तीसदृश्यः पादातानां भेजिरे खड्गलेखाः ||४||
रोपावेशादिति ॥ रोषावेशात्प्रत्यमित्रमभिशत्रुम् | आभिमुख्येऽव्ययीभावः । गच्छतां धावतां द्रवतां दूरादुत्क्षिप्ता उद्यताः स्थूलाः पीवराः बाहुध्वजाः ध्वजस्तम्भा इव बाहवो येषां तेषां पादातानां पदातिसमूहानाम् । 'पादातं पत्ति संहतिः' इत्यमरः । 'षिद्भिदादिभ्योऽङ्' । तिर्यग्दीर्घाः । तिर्यगायता इत्यर्थः । लेखा इव खड्गाः खड्गलेखाः वैजयन्तीसदृश्यः । पताकासदृश्यः सत्य इत्यर्थः । 'वैजयन्ती पताका स्यात्' इत्यमरः । दृशेः 'समानान्ययोश्च' इति 'कञ् च वक्तव्यः' इति समानशब्दोपपदाद्दृशेः कन्प्रत्ययः । 'दृक्षे चेति वक्तव्यम्' इति समानस्य सभावः । भ्रेजिरे रेजिरे । 'भ्राजू दीप्तौ' इति धातोः कर्तरि लिट् । 'फणां च सप्तानाम्' इति विकल्पा देवाभ्यासलोपौ । आर्थीयमुपमा ॥
१ अत्र दृक्षशब्दपरत्वाभावेनास्य वार्तिकस्योपन्यासो भ्रममूलकः । तस्मात् 'दृग्दृशव तुषु इति सूत्रेण सभावो बोध्यः ।
शिशु० ३८