________________
शिशुपालवधे. वर्धाबद्धा धौरितेन प्रयातामश्वीयानामुच्चकैरुचलन्तः । रौक्मा रेजुः स्थासका मूर्तिभाजो दर्पस्येव व्याप्तदेहस्य शेषाः ॥५॥
वर्धेति ॥ धौरितेन धौरिताख्येन गतिविशेषेण प्रयातां धावताम् । यातेर्लटः शत्रादेशः । अश्वीयानामश्वसमूहानाम् । 'केशाश्वाभ्यां यञ्छावन्यतरस्याम्' इति छप्रत्ययः । उच्चकैरुच्चलन्तो गतिवशादूर्ध्वमुत्पतन्तः वर्धन्ते इति वर्धाणि पर्याणबन्धनवरत्राः । 'वधं त्रपुवरत्रयोः' इति विश्वः । 'वृधुवधिवपिभ्यो रन्' इति रन्प्र. त्ययः । लघूपधगुणो रपरः । तेष्वाबद्धाः स्थापिता रौक्माः सौवर्णाः स्थासकाः बुद्बुदाकारमण्डलानि व्याप्तदेहस्य सर्वाङ्गीणस्य मूर्तिभाजो मूर्तिभृतः दर्पस्यान्तरस्य तेजसः शेषाः अन्तरमानाद्वहिर्निर्गता अतिरेका इव रेजुरित्युत्प्रेक्षा ॥ सान्द्रत्वकारतल्पलाश्लिष्टकक्षा आङ्गी शोभामाप्नुवन्तश्चतुर्थीम् । कल्पस्यान्ते मारुतेनोपनुन्नाश्वेलुश्चण्डं गण्डशैला इवेभाः ॥६॥
सान्द्रेति ॥ सान्द्रत्वकाः सान्द्रवर्माणः । शैषिकः कप्प्रत्ययः । तल्पलाः पृष्ठवंशास्तेषु श्लिष्टाः कक्षाः मध्यबद्धवरना येषां ते। 'दूष्या कक्षा वरना स्यात्' इत्यमरः । गजानां विंशत्युत्तरशतायुषां द्वादश दशा भवन्ति तत्र चतुर्दशारू. ढाप्रौढशोभा। तदेवाह-अथ चतुर्थीमाङ्गी शारीरी शोभामामुवन्तः । चत्वारिंशद्वर्षदेश्या इत्यर्थः । इभा गजाः कल्पस्यान्ते मारुतेनोपनुन्नाः। प्रलयमारुतप्रेरिताः गण्डशैलाः स्थूलोपला इव चण्डं तीव्र चेलुः प्रतस्थिर इत्युपमा ॥ संक्रीडन्ती तेजिताश्वस्य रागादुद्यम्यारामग्रकायोत्थितस्य । रंहोभाजामक्षधूः स्यन्दनानां हाहाकारं प्राजितुः प्रत्यनन्दत् ॥७॥
संक्रीडन्तीति ॥ संक्रीडन्ती संघर्षात्कूजन्ती । 'समोऽकूजने च वक्तव्यम्' इति वचनात्कूजने 'क्रीडोऽनुसंपरिभ्यश्च' इति नात्मनेपदम् । रंहोभाजां वेगभाजां स्यन्दनानां रथानामक्षस्य चकाधारकाष्ठस्य धूरग्रमक्षधूः । 'अक्षं रथाङ्ग आधारे' इति वैजयन्ती । अनक्षे इति निषेधात् 'ऋक्पू:-' इत्यादिना न समासान्तः । रागात् आरां प्रतोदमुद्यम्य तेजिता उत्साहिता अश्वा येन तस्य अग्रं चासौ कायश्च स उत्थितो यस्य तस्य । उत्थितपूर्वकायस्येत्यर्थः । आहितान्यादित्वात्साधुः । प्राजितुः सारथेः। 'नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः' इत्यमरः । हाहाकारमुत्साहवर्धनार्थं हाहाशब्दम् । एवकार इत्यत्रैवग्रहणस्योपलक्षणत्वादन्यत्रापि यथादर्शनं शब्दनिर्देशात्कारप्रत्ययः। अथवा हाहाकारं हाहाकरणम् । भावे घञ् प्रत्ययः । प्रत्यनन्दत्साधुसाध्वित्यन्वमोदत किमित्युत्प्रेक्षा ॥ कुर्वाणानां सांपरायान्तरायं भूरेणूनां मृत्युना मार्जनाय । संमार्जन्यो नूनमुद्भूयमाना भान्ति सोचैः केतनानां पताकाः ॥८॥
कुर्वाणानामिति ॥ उच्चैरुन्नताः केतनानां ध्वजस्तम्भानां पताका वैजयन्त्यः सांपरायान्तरायं युद्धविघ्नं कुर्वाणानाम् । 'अनीकं सांपरायिकम्' इत्यमरः ।