________________
अष्टादशः सर्गः।
४४७
भूरेणूनां मार्जनाय प्रमार्जनार्थ मृत्युनान्तकेनोद्धूयमानाः प्रकम्प्यमानाः संमार्जन्यः शोधन्य इव भान्ति स्म । 'संमार्जनी शोधनी स्यात्' इत्यमरः। नूनमित्युत्प्रेक्षा ॥ उद्यन्नादं धन्विभिनिष्ठुराणि स्थूलान्युच्चैर्मण्डलत्वं दधन्ति । आस्फाल्यन्ते कार्मुकाणि स कामं हस्त्यारोहैः कुञ्जराणां शिरांसि ९
उद्यन्नादमिति ॥ धन्विभिर्धनुष्मद्भिः । ब्रीह्यादित्वादिनिप्रत्ययः । निष्ठु. राणि कर्कशानि स्थूलानि पीवराण्युच्चैरुन्नतानि मण्डलत्वं दधन्ति वर्तुलत्वं दधा. नानि । एकत्राकर्षणादन्यत्र स्वभावाच्चेति भावः । कर्मणि प्रभवन्तीति 'कर्मण उकञ्' कार्मुकाणि धनूंषि । उद्यन्नादमुजम्भमाणघोषं यथा तथा काममास्फाल्यन्ते स्म पाटवपरीक्षार्थं पाणिभिरास्फालितानि । हस्तिनं रोहन्तीति हस्त्यारोहैनिपादिभिः । कर्मण्यण् । कुञ्जराणां शिरांसि आस्फाल्यन्ते स्म । उत्साहार्थमिति भावः । अत्र कार्मुकाणां कुञ्जरशिरसां च प्रकृतानामेव निष्ठुरत्वादिविशेषणसाम्येनौपम्यावगमात्केवलप्रकृतास्पदा तुल्ययोगिता ॥ घण्टानादो निस्वनो डिण्डिमानां ग्रैवेयाणामारवो इंहितानि । आमेतीव प्रत्यवोचत् गजानामुत्साहार्थं वाचमाधोरणस्य ॥१०॥
घण्टानाद इति ॥ घण्टानादः किङ्किण्यादिवोषः डिण्डिमानां वाद्यविशेषाणां निस्वनः । ग्रीवासु भवानां ग्रैवेयाणां कण्ठशृङ्खलानां ग्रीवाभ्य एवेति ढक् प्रत्ययः । आरवः बृंहितानि बृंहणानि गजानां उत्साहार्थमाधोरणस्य हस्तिपकस्य । 'आधो. रणा हस्तिपकाः' इत्यमरः । 'वाचं बृंहणादिशब्दं आमेति प्रत्यवोचन्निवैवमेवेत्यनुकूलमूचिर इवेत्युत्प्रेक्षा । 'आमानुगुण्ये स्मरणे' इत्यमरः ॥ यातैश्चातुर्विध्यमस्त्रादिभेदादव्यासङ्गैः सौष्ठवाल्लाघवाच । शिक्षाशक्तिं प्राहरन्दर्शयन्तो मुक्तामुक्तैरायुधैरायुधीयाः॥११॥
यातैरिति ॥ आयुधेन जीवन्तीत्यायुधीया आयुधजीविनः । 'शस्त्राजीवे काण्डपृष्ठायुधीयायुधिकाः समाः' इत्यमरः । 'आयुधाच्छ च' इति छप्रत्ययः। शिक्षाशक्तिमभ्यासपाटवं दर्शयन्तः अस्त्रादिभेदादस्वमहास्त्रादिकभेदाच्चातुर्विध्यं यातैः प्राप्तैः । सुष्टुभावः सौष्ठवं नैशित्यादिगुणवत्वं तस्मात् । उद्गात्रादित्वादप्रत्ययः । लाघवाद्वेगवत्त्वाच्च । 'इगन्ताञ्च लघुपूर्वात्' इत्यण्प्रत्ययः । अव्यासङ्गैरप्रतिषिद्धैः मुच्यन्त इति मुक्तानि शरादीनि न मुच्यन्त इत्यमुक्तानि खड्गादीनि च तैस्तैर्मुक्ता. मुक्तैरिति द्वन्द्वः । आयुधैः प्राहरन् । स्वभावानुप्रासयोः संसृष्टिः ॥ रोपावेशादाभिमुख्येन कौचित्पाणिग्राहं रंहसैवोपयातौ।। हित्वा हेतीमल्लवन्मुष्टिघातं घ्नन्तौ बाहूबाहवि व्यासृजेताम् ॥१२॥
रोषावेशादिति ॥ कौचिद्योधौ रोषावेशादोषपारवश्यादाभिमुख्येन रहसा वेगेनेवोपयातौ मिथः प्रत्यासन्नौ अतएव पाणिग्राहमन्योन्यं पाणिं गृहीत्वा ।