________________
४४८
शिशुपालवधे
'द्वितीयायां च' इति णमुल्प्रत्ययः । हेतीः शस्त्राणि हित्वा त्यक्त्वा । वैकल्यादिति भावः । 'हेतिस्तु शस्त्रे द्वयोः' इति केशवः । मल्लवन्मल्लाभ्यां तुल्यम् । 'तेन तुल्यम्-' इति वतिप्रत्ययः । मुष्टिघातं मुष्टिभिर्हत्वा । 'करणे हनः' इति णमुलनत्ययः । नन्तौ प्रहरन्तौ । हन्तेर्लटः शत्रादेशः । कषादित्वादनुप्रयोगः । मुष्टिभि
न्तावित्यर्थः । बाहुभ्यां बाहुभ्यां प्रहृत्य प्रवृत्तमिदं युद्धं वाहूबाहवि बाहुयुद्धम् । 'तत्र तेनेदमिति सरूपे' इति बहुव्रीही 'इच्कर्मव्यतिहारे' इतीच्प्रत्ययः समासान्तः । 'अन्येषामपि दृश्यते' इति दीर्घः । तिष्टगुप्रभृतिषु पाठादव्ययीभावत्वादव्ययत्वम् । तत्र व्यासृजेतां व्यासक्तवन्तौ । 'कर्तरि कर्मव्यतिहारे' इत्यात्मनेपदम् । मल्लवमिति तद्धितगा श्रौती पूर्णोपमा ॥ शुद्धाः सङ्गं न क्वचित्प्राप्तवन्तो दूरान्मुक्ताः शीघ्रतां दर्शयन्तः । अन्तःसेनं विद्विषामाविशन्तो युक्तं चक्रुः सायका वाजितायाः १३
शुद्धा इति ॥ शुद्धा निर्विषाः । 'न कर्णिभिर्नापि दग्धैर्नाग्निज्वलिततेजनैः' इति निषेधादिति भावः। अन्यत्र जात्येत्यर्थः । क्वचित्कुत्रापि सङ्गं प्रतिबन्धं न प्राप्तवन्तः न प्राप्ताः । दुर्वारा इत्यर्थः । दूरान्मुक्ता दूरत एव विसृष्टाः । 'स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन' इति समासः । ‘पञ्चम्याः स्तोकादिभ्यः' इत्यलुक् । शीघ्रतां जवनत्वं दर्शयन्तः । विद्विषां सेनास्वन्तः अन्तःसेनम् । विभक्त्यर्थे - व्ययीभावः । आविशन्तः । सेनामध्यं प्रविशन्त इत्यर्थः । सायका बाणाः वाजितायाः पक्षवत्तायाः अश्वत्थस्य च । 'वाजो निःस्वनपक्षयोः' इति विश्वः । युक्तमनुरूपं कर्म चक्रुः । एवंविधसेनाप्रवेशस्य वाजिनामेव संभवादिति भावः । अत्राभिधायाः प्रकृतपक्षतामात्रोपक्षीणत्वाद्वाजिताशब्देन प्रकृतस्यैव प्रतीतेः ध्वनिरेवेति न श्लेषावकाशः । किंतु शुद्धादिपदार्थपुञ्जविशेषणगत्या सायकानां युक्तकारिताहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥ आक्रम्याजेरग्रिमस्कन्धमुच्चैरास्थायाथो वीतशङ्कं शिरश्च । हेलालोला वर्त्म गत्वातिमत्र्य द्यामारोहन्मानभाजः सुखेन ॥१४॥
आक्रम्येति ॥ मानभाजोऽभिमानवन्तः । उच्चैरुन्नतं आजेयुद्धस्याग्रिमस्कन्धमग्रभागमंसप्रदेशं चाक्रम्यारुह्य वीतशकं शिरःसंमुखमुत्तमकायं चास्थायारुह्य हेलासु युद्धक्रीडासु, लीलासु च लोला उत्सुकाः सन्तः अतिमत्यं वर्म गत्वा । अमानुषं युद्धं कृत्वेत्यर्थः । अन्यत्रामानुपगम्यमारोहणमार्ग गत्वा सुखेनानायासेन द्यां स्वर्गमभ्रंकषं गिरिशिखरादि क्रीडास्थानम् । 'द्यौः स्वर्गसुखवफ्नोः ' इति विश्वः । आरोहन्नारूढाः 'युध्यमानाः परं शक्त्या स्वर्ग यान्त्यपराङ्मुखाः' इति मनुस्मरणादिति भावः । यथाकथंचित्कश्चित्स्कन्धमूर्धारोहणक्रमेण किंचिदुरारोहमद्रितटादिकमारोहति तद्वदिति प्रतीतेर्विशेषणमहिम्नागता समासोक्तिः ॥ रोदोरन्ध्र व्यश्नुवानानि लोलैरङ्गस्यान्तापितैः स्थावराणि । केचिद्गुर्वीमेत्य संयन्निषद्यां क्रीणन्ति स प्राणमूल्यैर्यशांसि ॥१५॥