________________
अष्टादशः सर्गः।
४४९.
रोदोरन्ध्रमिति ॥ केचिद्वीराः गुर्वी महतीं संयतो युध एव निषीदन्त्यस्यामिति निषद्यामापणम् । 'आपणस्तु निषद्यायाम्' इत्यमरः । 'संज्ञायां समजनिपद-' इत्यादिना क्यप् । एत्य प्राप्य । आङ्पूर्वादिणः क्त्वो ल्यप् । देहस्यान्तरभ्यन्तरे मापितैः परिच्छिन्नैः । मातेर्माडो वा ण्यन्ताकर्मणि क्तः । 'अर्तिीं-' इत्यादिना पुगागमः । लोलैरस्थिरैः प्राणैरेव मूल्यैः प्राणमूल्यै रोदसो-वापथिव्यो रन्ध्रमन्तरालं व्यश्नुवानानि व्यामुवन्ति । अश्नोतेर्लटः शानजादेशः । स्थावराणि स्थिराणि । यशांसि क्रीणन्ति स्म । स्वीचक्रुरित्यर्थः । अत्र न्यूनैः प्राणैस्ततोऽधिकयशःपरिवर्तनान्यूनपरिवृत्तिरलंकारः । 'समन्यूनाधिकानां च यदा विनिमयो भवेत् । साकं समाधिकन्यूनैः परिवृत्तिरसौ मता ॥' इति लक्षणात् ॥ वीर्योत्साहश्लाघि कृत्वावदानं सङ्ग्रामाग्रे मानिनां लजितानाम् । अज्ञातानां शत्रुभिर्युक्तमुच्चैः श्रीमन्नाम श्रावयन्ति स्म ननाः॥१६॥
वीर्योत्साहेति ॥ सङ्ग्रामाग्रे रणाग्रे वीर्योत्साहाभ्यां श्लाध्यते इति श्लाघि विक्रमाहंकारशोभि अवदानं महत्कर्म कृत्वा । 'अवदानं कर्म वृत्तम्' इत्यमरः । लजितानाम् । मानित्वात्स्वनामाख्याने संकोचवतामित्यर्थः । शत्रुभिरज्ञातानामज्ञातनामकानां मानिनां मानशालिनां शुराणां संबन्धि श्रीमत् शौर्यश्रीयुक्तं नाम नग्नाः बन्दिनः। 'बन्दिनि क्षपणे नग्नः' इति विश्वः । उच्चैः श्रावयन्ति स्म । अयमसाविति कथयामासुरित्यर्थः । युक्तम् । सर्वमेतदुचितमित्यर्थः । अत्र लज्जमानाज्ञातयोर्विशेषणगत्या बन्दिश्रवणहेतुत्वाकाव्यलिङ्गभेदः ॥ आधावन्तः संमुखं धारितानामन्यैरन्ये तीक्ष्णकौक्षेयकाणाम् । वक्षःपीठैरात्सरोरात्मनैव क्रोधेनान्धाः प्राविशन्पुष्कराणि ॥१७॥
आधावन्त इति ॥ क्रोधेनान्धा अपश्यन्तोऽन्ये भटाः आधावन्तोऽभिमुखमापतन्तः सन्तः अन्यैः सैन्यैः प्रतिद्वन्द्वाभिसंमुखं धारितानां कृतानां तीक्ष्णकौक्षेयकाणां निशितासिनाम् । 'कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु' इति ढकञ् प्रत्ययः । पुष्कराणि फलानि । खड्गसुखानीत्यर्थः । 'पुष्करं तूर्यवत्रे च. काण्डे खगफलेऽपि च' इति विश्वः । वक्षांसि पीठानीव वक्षःपीठैर्वक्षस्थलैः आत्सरोरामुष्टेः । 'त्सरुः खगादिमुष्टौ स्यात्' इत्यमरः । 'आङ् मर्यादाभिविध्योः' इति विकल्पादसमासः । आत्मना स्वयमेव । परप्रयत्नं विनेत्यर्थः । प्राविशन्प्रविष्टाः । अत्र क्रोधान्धविशेषणगत्या पुष्करप्रवेशहेतुत्वात्काव्यलिङ्गभेदः ॥ मिश्रीभूते तत्र सैन्यद्वयेऽपि प्रायेणायं व्यक्तमासीद्विशेषः । आत्मीयास्ते ये पराश्चः पुरस्तादम्यावर्ती संमुखो यः परोऽसौ १८
मिश्रीभूत इति ॥ तत्र युद्धे सैन्यद्वयेऽपि मिश्रीभूते मिलिते सति प्रायेणायं विशेषोऽसाधारणधर्मों व्यक्तमासीत् । क इत्याह-पुरस्तादने ये पराञ्चः पराङ्मुखाः । परेऽपीति भावः । ते आत्मीयाः । अवध्या इत्यर्थः । 'न भीतं न परा