________________
१००
शिशुपालवधे
रुचिरचित्रतनूरुहशालिभिर्विचलितैः परितः प्रियकत्रजैः । विविधरत्नमयैरभिभात्यसाववयवैरिव जङ्गमतां गतैः ॥ ३२ ॥ रुचिरेति ॥ असौ गिरिः रुचिरैरुज्वलैश्चित्रैर्नानावर्णैस्तनूरुहैर्लोमभिः शालन्त इति तथोक्तैः परितः प्रचलितैः प्रसरद्भिः प्रियकाः कम्बलप्रकृतयो मृगविशेषाः । ' प्रियको रोमभिर्युक्तो मृदूच्चमसृणैर्घनैः' इति वैजयन्ती । तेषां व्रजैः समूहैर्जङ्गमतां चरिष्णुतां गतैर्विविधरल मयैरवयवैः स्वाङ्गैरिव प्रतिभातीत्युत्प्रेक्षा । द्रुतविलम्बितं वृत्तम् । " द्रुतविलम्बितमाह नभौ भरौ” इति लक्षणम् ॥
1
कुशेशयैरत्र जलाशयोषिता मुदा रमन्ते कलभा विकखरैः । प्रगीयते सिद्धगणैश्च योषितामुदारमन्ते कलभाविकखरैः ॥३३॥ कुशेशयैरिति ॥ अत्रादौ जलाशयोषिता जलाशयेषु हृदेषु उषिता वसन्तः 1 'गत्यर्थाकर्मक-' इत्यादिना वसतेः कर्तरि क्तः । संप्रसारणम् ' मतिबुद्धिपूजार्थेभ्यश्च' इति चकाराद्वर्तमानार्थता । कलभात्रिंशद्वर्ष करिणः । 'त्रिंशद्वर्षस्तु कलभः ' इति वैजयन्ती । विकस्वरैर्विकसनशीलैः । 'स्थेश भासपिसकसो वरच्' । कुशेशयैः शतपत्रैः । 'शतपत्रं कुशेशयम्' इत्यमरः । मुदा प्रीत्या रमन्ते क्रीडन्ति । करिविहाराणां कमलाकराणामयमाकर इति भावः । किंच कला अव्यक्तमधुराः । विकारो मानसो भावः स प्रयोजनमेषां भाविकाः । उद्दीपका इत्यर्थः । कलभाविकाश्च स्वराः षड्जादयो येषां तैः कलभाविकस्वरैः सिद्धगणैः सुरसङ्घैर्योषितां स्वस्त्रीणामन्ते समीपे उदारमुचैः प्रगीयते च । भूस्वर्गोऽयमिति भावः ॥ आसादितस्य तमसा नियतेर्नियोगा
दाकाङ्क्षतः पुनरपक्रमणेन कालम् । पत्युस्त्विषामिह महौषधयः कलत्रस्थानं परैरनभिभूतममूर्वर्हन्ति ॥ ३४ ॥
आसादितस्येति ॥ इहाद्रौ अमूर्महौषधयो नियतेर्नियोगादस्मिन्काले इदं भावीति दैवशासनात् । तमसान्धकारेण तत्प्रायेण व्यसनेन वा आसादितस्याक्रान्तस्य पुनरपक्रमणेन पुनरावृत्या कालं समागमकालमाकाङ्क्षतः । पुनरागत्य संगन्तुमिच्छत इत्यर्थः । त्विषां पत्युः सूर्यस्य संबन्धि परैस्तेजोन्तरैः, पुरुषान्तरैश्वानभिभूतमतिरस्कृतमनुपहतं च कलत्रस्थानं कलत्रभूतानां त्विषां स्थानं स्थितिं वहन्ति । निर्वहन्तीत्यर्थः । स्त्रीणां स्त्रीष्वेव रक्षणं कार्यमिति भावः । यथा केनचिदापदि न्यासीकृतानि कलत्राणि संरक्ष्य कालान्तरे साधवस्तस्मै प्रयच्छन्ति तद्वदोषधयोsपि त्विषस्त्विषां पत्युरर्पयन्तीत्यर्थः । एतच्च तासां सूर्यास्तमये प्रज्वलनादुदये विपर्ययाच्चोपचर्यते । अत्र विशेषणसाम्यादर्कादीनामापन्नादिसाम्यप्रतीतेः समासोक्तिरलंकारः ॥
१ 'भजन्ति' इति पाठः.