________________
चतुर्थः सर्गः। स्तनैश्च । 'स्त्रीस्तनाब्दौ पयोधरौ' इत्यमरः। उपरुद्धा आवृताः निबद्धाः सततं सर्वदासुमतां प्राणभृतामगम्यरूपा अत्युन्नतत्वादुरारोहवरूपाः, अन्यत्र वृद्धत्वाद्गमनानह विग्रहाः । 'त्यजेदन्त्यकुलोत्पन्नां वृद्धां स्त्री कन्यकां तथा' इति गमननिषेधादिति भावः । परिणतास्तिर्यग्दन्तप्रहारिणो दिक्करिणो दिग्गजा यासु ताः परिणतदिक्करिकाः। 'तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः' इति हलायुधः । 'इनः स्त्रियाम्' इति समासान्तः कप्रत्ययः। अन्यत्र परिणताः किणीभूता दिशो दन्तक्षतविशेषाः करिकाः, नखवणाश्च यासां ताः । 'दिग्दष्टे वर्तुलाकारे करिका नखरेखिका' इति वैजयन्ती । तटीर्बिभर्ति । अत्र प्रकृततटीविशेषणमहिम्ना अप्रकृतवृद्धाङ्गनाप्रतीतेः समासोक्तिः । पुष्पिताग्रा वृत्तमुक्तम् ॥
धूमाकारं दधति पुरः सौवर्णे
वर्णेनाग्नेः सदृशि तटे पश्यामी । श्यामीभूताः कुसुमसमूहेऽलीनां
लीनामालीमिह तरवो बिभ्राणाः ॥३०॥ धूमेति ॥ इहाद्रौ पुरोऽग्रे वर्णेनाग्नेः सदृशि समाने । अग्निसमानवर्ण इत्यर्थः । सौवर्णे सुवर्णविकारे तटे कुसुमसमूहे लीनां स्थिताम् । 'ल्वादिभ्यश्च' इति निष्ठानत्वम् । अलीनां भृङ्गाणामालीमावलिं बिभ्राणा अत एव श्यामीभूता अमी तरवो धूमाकारं धूमसाम्यं दधति । त्वं पश्य । स्वर्णतटमग्निवद्भाति, श्यामास्त. रवो धूमवद्भान्तीत्युपमा। जलधरमाला वृत्तम् । 'अब्ध्यङ्गैः स्याजलधरमाला म्भौ मौ' इति लक्षणात् ॥
व्योमस्पृशः प्रथयता कलधौतभित्ती__ रुन्निद्रपुष्पचणचम्पकपिङ्गभासः । सौमेरवीमधिगतेन नितम्बशोभा
मेतेन भारतमिलावृतवद्विभाति ॥ ३१ ॥ व्योमेति ॥ व्योमस्पृशोऽभ्रंकषाः उन्निद्रेविकसितैः पुष्पैर्वित्ता उन्निद्रपुष्पचणाः । तेन वित्तः-' इति चणप्प्रत्ययः। ते च ते चम्पकाश्च तद्वत्पिङ्गभासः पिङ्गवर्णाः कलधौतभित्तीः कनकतटीः। 'कलधौत रौप्यहेनोः' इति विश्वः । प्रथयता प्रकटयता अत एव सौमेरवीं सुमेरुसंबन्धिनी नितम्बशोभां कटकलक्ष्मीमधिगतेन प्राप्तवता । 'गत्यर्थाकर्मक-' इत्यादिना गमेः कर्तरि क्तः । एतेन रैवतकाद्रिणा भारतं भरतस्य राज्ञ इदं भारताख्यं वर्ष भूखण्डम् । 'स्यादृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम्' इत्यमरः। इलावृतवदिलावृतवर्षमिव विभातीत्युपमा । नवखण्डस्य जम्बूद्वीपस्य हिमाद्रेर्दक्षिणभूखण्डं हैमवतापरनामकं भारतवर्ष सुमेरुयोगात्सौमेरवापराख्यं मध्यमखण्डमिलावृतवर्षम् । अत एव 'नाम्नेदं भारतं वर्ष हिमाद्रेस्तच्च दक्षिणे । तेन हैमवतं नाम परेष्वप्येवमुन्नतम् ॥ इलावृतं सौमेरवं सुमेरोः परितो हि तत् ॥' इति वैजयन्ती ॥