________________
चतुर्थः सर्गः। वनस्पतिस्कन्धनिषण्णवालप्रवालहस्ताः प्रमदा इवात्र । पुष्पेक्षणैर्लम्भितलोचकैर्वा मधुव्रतत्रातवृतैर्ऋतत्यः ॥ ३५ ॥ वनस्पतीति ॥ अत्रादौ वनस्पतयो वृक्षाः। 'वनस्पतिवृक्षमात्रे विनापुष्पफलद्रुमे' इति विश्वः। तेषां स्कन्धेषु प्रकाण्डेषु, अंशेषु च निषण्णाः सक्ता बालप्रवाला बालपल्लवा हस्ता इव यासां तास्तथोक्ताः । मधूनि व्रतयन्ति भुञ्जते इति मधुव्रता मधुपास्तेषां वातेन वृन्देन वृतैश्छन्नैः । अत एव लम्भिताः प्रापिता लोचकास्तारकाणि, कजलानि च यैस्तैर्वा । तैरिव स्थितैरित्युत्प्रेक्षा । इवार्थे वाशब्दः तद्वदुत्प्रेक्षायां चोक्तः । 'लोचको मांसपिण्डे स्यादक्षितारे च कजले' इति विश्वः । पुष्पैरीक्षणैरिव पुष्पेक्षणैरुपलक्षिता व्रतत्यो लताः । प्रमदा इव लक्ष्यन्त इति शेषः। 'न प्रसिद्ध क्रियाध्याहारदोषः' इत्याह वामनः । लिङ्गाध्याहारवदिति ॥
विहगाः कदम्बसुरभाविह गाः कलयन्त्यनुक्षणमनेकलयम् । भ्रमयन्नुपैति मुहुरभ्रमयं पवनश्च धूतनवनीपवनः ॥ ३६ ॥ विहगा इति ॥ कदम्बैः सुरभिः सुगन्धिस्तस्मिन्कदम्बसुरभाविहाद्री विहगाः पक्षिणोऽनुक्षणं प्रतिक्षणं अनेके बहुविधा लया विच्छेदा यस्मिन्कर्मणि तद्यथा तथा गाः वाचः । शब्दानित्यर्थः । कलयन्त्युच्चारयन्ति । 'अर्जुनीनेत्रदि. ग्बाणभूवाग्वारिषु गौर्मता' इति विश्वः । किंच धूतानि कम्पितानि नवानि नीपवनानि कदम्बकाननानि येन स धूतनवनीपवनः । 'नीपप्रियकदम्बास्तु हलिप्रिये' इत्यमरः । अयं पवनो मुहुरभ्रं मेघ भ्रमयन्नुपैति । प्रमिताक्षरावृत्तम् । 'प्रमिताक्षरा सजससैरुदिता' इति लक्षणात् ॥
विद्वद्भिरागमपरैर्विवृतं कथंचि
छुत्वापि दुर्ग्रहमनिश्चितधीभिरन्यैः । श्रेयान्द्विजातिरिव हन्तुमघानि दक्षं
गूढार्थमेष निधिमत्रगणं विभर्ति ॥ ३७॥ विद्वद्भिरिति ॥ एषोऽद्विः श्रेयान् श्रेष्ठः द्विजातिर्ब्राह्मण इव आगमो निधिकल्पो मन्त्रशास्त्रं च स एव परं प्रधानं येषां तैरागमपरैर्विद्वद्भिर्निधीनां मन्त्राणां च साधनविधानज्ञैः कथंचिद्विवृतं स्वरूपतः प्रकाशितम् । नास्ति निश्चिता इदमित्थमिति निश्चयात्मिका धीर्येषां तैरनिश्चितधीभिरन्यैरशास्त्रज्ञैः श्रुत्वापि इह निधिरस्ति, ईदृङ्महिमा असौ मन्त्र इति चाप्तमुखादाकर्ष्यापि दुर्घहं दुःसाधनम् । अघानि दुःखान्येनांसि च हन्तुं दक्षं समर्थम् । 'दुःखैनोव्यसनेष्वघम्' इति वैज. यन्ती। गूढः संवृतोऽर्थो धनं, अभिधेयं च यस्मिंस्तं गूढार्थम् । निधयो मन्त्रा इव, अन्यत्र निधय इव मन्त्रास्तेषां गणं विभर्ति । द्विजातिमन्त्रगणमिव निधिगणमेष बिभर्तीत्युपमार्थः॥