________________
१०२
शिशुपालवधे
विम्बोष्ठं बहु मनुते तुरंगवक्रबन्तं मुखमिह किंनरं प्रियायाः । श्लिष्यन्तं मुहुरितरोऽपि तं निजस्त्री
मुत्तुङ्गस्तनभरभङ्गभीरुमध्याम् ॥ ३८ ॥
बिम्बोष्ठमिति ॥ इहाद्वैौ तुरंगस्य वत्रमिव वक्रं यस्य स तुरंगवको देवयोनिविशेषः । सप्तम्युपमानपूर्वपदस्य बहुव्रीहिरुत्तरपदलोपश्चेत्युष्ट्र मुखवत्समासः । 'बिम्बकल्प ओष्ठो यस्य तं बिम्बोष्ठमित्युपमालंकारः । 'ओत्वोष्ठयोः समासे वा 'पररूपं वक्तव्यम्' इत्योकारः । प्रियाया मुखं चुम्बन्तं किंनरं मानुषमुखमश्वाङ्गं देवयोनिविशेषं बहु गुरु यथा तथा मनुतेऽवबुध्यते । तुरंगवक्रस्य चुम्बनासंभवादिति भावः । इतरः किंनरोऽप्युत्तुङ्गस्तनभरेण यो भङ्गस्तस्माद्भीरुर्मध्यो यस्यास्तां निजस्त्रीं स्वस्त्रियम् । 'वाम्शसोः' इति विकल्पादियङादेशाभावः । मुहुः लिष्यन्तं मानुषाङ्गत्वादालिङ्गन्तं तुरंगवक्रं बहु यथा तथा मनुते । तुरंगवपुषः किंनरस्याश्लेषासंभवादिति भावः । दुर्लभं प्रियं भवतीति रहस्यम् । मध्यस्याभsपि भङ्गोक्तेरतिशयोक्तिरुपमया संसृज्यते । प्रहर्षिणीवृत्तमुक्तम् ॥
यदेतदस्यानुतटं विभाति वनं ततानेकतमालतालम् । न पुष्पितात्र स्थगितार्करश्मावनन्तताने कतमा लतालम् ॥ ३९ ॥ यदिति ॥ अस्याद्वेरनुतटं तटेषु । विभक्त्यर्थेऽव्ययीभावः । तता विस्तृता अनेके बहवस्तमालास्तालाश्च यस्मिंस्तत्तताने कतमालतालं यदेतत्पुरोवर्ति वनं विभाति स्थगितार्करश्मौ तिरोहितातपे अनन्ततानेऽपार विस्तारेऽत्र वने कतमा -लता का वा लता अलमत्यन्तं न पुष्पिता । संजातपुष्पा न भवतीति शेषः । सर्वापि पुष्पितेत्यर्थः ॥
दन्तोलासु विमलोपल मेखलान्ताः सद्रत्नचित्रकटकासु बृहन्नितम्बाः । अस्मिन्भजन्ति घनकोमलगण्डशैला नार्योऽनुरूपमधिवासमधित्यकासु ॥ ४० ॥
दन्तोज्ज्वलाखिति ॥ अस्मिन्नद्रौ दन्ता निकुञ्जाः, दशनाश्च । 'दन्तो निकुञ्जे दशने' इति विश्वः । तैरुज्वलासु रुचिरासु सङ्गतैश्चित्राणि कटकानि सानूनि, वलयानि च यासां तासु । 'कटकं वलये सानौ' इति विश्वः । अधित्यकासूर्ध्वभूमिषु ।' भूमिरूर्ध्वमधित्यका' इत्यमरः । ' उपाधिभ्यां त्यकन्नासन्नारूढयोः' इत्यधिशब्दात्यकन्प्रत्ययः । विमलोपला उज्वलशिलाः, उज्वलमणयो वा मेखलाः कायो, नितम्बभूमयश्च । 'मेखला खड्गबन्धे स्यात्काञ्चीशैल नितम्बयो:' इति विश्वः । ताभिरन्ता रम्याः । 'मृताववसिते रम्ये समाप्तावन्त इष्यते' इति शब्दार्णवे । बृहन्तो नितम्बः कटिपश्चाद्भागाः शिखराणि च यासां ताः । ' नितम्बी रोधसि