SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः। १०३ स्कन्धे शिखरेऽपि कपेरधः' इति विश्वः। घना विपुलाः कोमलाः श्लक्ष्णा गण्ड. शैला गण्डस्थलानि, स्थूलोपलाश्च यासां ताः नार्योऽनुरूपमिच्छासदृशं, आत्म. सदृशं वाधिवासं भजन्ति । अत्र नारीणामधित्यकानां च प्रकृतत्वात्केवलप्रकतगोचरा श्लेषोपस्थापिता तुल्ययोगिता। अत एवोभयविशेषणान्युभयन्त्र विभ. क्तिविपरिणामेन योज्यानि ॥ अनतिचिरोज्झितस्य जलदेन चिर स्थितबहुबुद्बुदस्य पयसोऽनुकृतिम् । विरलविकीर्णवज्रशकला सकला मिह विदधाति धौतकलधौतमही ॥४१॥ अनतिचिरेति ॥ इहाद्रौ विरलं यथा तथा विकीर्णाः प्रसरणशीला वज्रशकलाः श्वेतहीरखण्डानि यस्यां सा धौता शुभ्रा कलधौतमही रजतभूमिः। 'कलधौतं रूप्यहेनोः' इति विश्वः । जलदेनानतिचिरोज्झितस्य तत्कालमुक्तस्य । शुभ्र. स्येति भावः । चिरस्थिताश्चिरस्थायिनो बहवश्च बुहुदा जलस्फोटा यसिंस्तस्य पयसोऽम्भसः सकलामनुकृति समग्रसादृश्यं विदधाति । अत्र मेघोज्झितजलस्य स्थिरबुडुदासंबन्धेऽपि संभावनया संबन्धोक्तेरतिशयोक्तिः । कुररीरुता वृत्तम् । 'कुररीरुता नजभजैलंगयुक्' इति लक्षणात् ॥ वर्जयन्त्या जनैः संगमेकान्तत स्तकेयन्त्या सुखं सङ्गमे कान्ततः। योषयैष सरासन्नतापाङ्गया सेव्यतेऽनेकया संनतापाङ्गया ॥४२॥ वर्जयन्त्येति ॥ एकान्तत एकान्ते । रहसीत्यर्थः । कान्ततः कान्तेन । प्रिये. णेत्यर्थः । उभयत्रापि सार्वविभक्तिकस्तसिः। संगमे सति सुखं तर्कयन्त्या उत्प्रेक्षमाणया। विस्रब्धं विहारमाकाङ्क्षन्त्येत्यर्थः । अत एव जनैः सङ्गं वर्जयन्या । कुतः । स्मरेणासन्नतापानि प्राप्तज्वराण्यङ्गानि यस्यास्तया सरासन्नतापाङ्गया । 'अङ्गगात्रकण्ठेभ्यश्चेति वक्तव्यम्' इति विकल्पादिह पक्षे टाप् । संनतौ नम्राव. पाङ्गौ यस्यास्तया संनतापाङ्गया स्मरतापास्कूणितनेत्रया अनेकया योषया। अनेका. भिर्योषाभिरित्यर्थः । जातावेकवचनम् । 'स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः' इत्यमरः । एषोऽद्रिः सेव्यते । इच्छाविहारस्थानानीह सन्तीति भावः । स्रग्विणी वृत्तम् । 'रैश्चतुर्भिर्युता स्त्रग्विणी संमता' इति लक्षणात् ॥ संकीर्णकीचकवनस्खलितैकवाल विच्छेदकातरधियश्चलितुं चमर्यः । अस्मिन्मृदुश्वसनगर्भतदीयरन्ध्रनिर्यत्स्वनश्रुतिसुखादिव नोत्सहन्ते ॥ ४३ ॥
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy