________________
१०४
शिशुपालवधे संकीणति ॥ अस्मिन्नद्रौ संकीर्णा मिथः संदृष्टाः कीचका वेणुविशेषाः । 'वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः' इत्यमरः । तेषां वने स्खलितस्यैकवालस्यैकरोम्णो विच्छेदात्कातरा जस्ता धीर्यासां ताश्चमर्यो मृदुश्वसनो मन्दमारुतो गर्भे येषां तेभ्यस्तदीयरन्ध्रेभ्यः कीचकविवरेभ्यो निर्यतो निर्गच्छतः स्वनस्य श्रुत्या श्रवणेन यत्सुखं तस्मादिवेति हेतूत्प्रेक्षा। चलितुं नोत्सहन्ते । वस्तुतस्तु वालप्रियत्वादिति भावः । 'शकष-' इत्यादिना तुमुन्प्रत्ययः ॥
मुक्तं मुक्तागौरमिह क्षीरमिवाभ्रे
पीष्वन्तीनमहानीलदलासु । शस्त्रीश्यामैरंशुभिराशु द्रुतमम्भ
श्छायामच्छामृच्छति नीलीसलिलस्य ॥४४॥ मुक्तमिति ॥ इहागावन्तीनानि महानीलदलानीन्द्रनीलविशेषखण्डानि यासु तासु । 'सिंहलस्थाकरोद्भूता महानीलास्तु ते मताः' इति भगवानगस्त्यः । वापीषु दीर्घिकास्वधैर्मेधैर्मुक्तं वृष्टं मुक्तागौरं मौक्तिकशुभ्रं अत एव क्षीरमिव स्थितम् । शस्त्री छुरिका । 'स्याच्छस्त्री चासिपुत्री च च्छुरिका चासिधेनुका' इत्यमरः । 'बह्वादिभ्यश्च' इति ङीष् । शस्त्रीवच्छ्यामैरंशुभिरन्तर्गतेन्द्रनीलमरीचिभिराशु तत्क्षणमेव द्रुतं लोलितं सत् । छुरितमित्यर्थः। नीलीसलिलस्य नीलान्यौषधिपत्ररसस्य । 'नीली काला क्लीतकिका' इत्यमरः । अच्छां छायां कान्तिमृच्छति । तत्सदृशीं छायां गच्छतीत्यर्थः । अतो निदर्शनालंकारः। स च मुक्तागौर क्षीरमिव, शस्त्रीश्यामैरिति चोपमात्रयेणान्तर्लीनमहानीलदलासु वापीष्विति पदार्थहेतुकं काव्यलिङ्गं तेनोत्थापितेनांशुभिर्दुतमिति तद्गुणोत्थापित इत्यङ्गाङ्गिभावेन संकरः । क्षीरमिवेत्यनेनेन्द्रनीलानां सौष्ठवं सूचितम् । 'क्षीरमध्ये क्षिपेन्नीलं क्षीरं चेन्नीलतां व्रजेत् । इन्द्रनीलमिति ख्यातम्' इति लक्षणसंभवात् । तेनात्र नीलीरसोपमानेन तद्वर्णा एवेति सूचितम् । 'नीलीरसनिभाः केचिच्छंभुकण्ठनिभाः परे' इत्यादिनागस्त्येन रत्नशास्त्र एषामेकादशविधच्छायाभिधानादिति । मत्तमयूरं वृत्तम् । 'वेदै रन्धैम्तौ यसगा मत्तमयूरम्' इति लक्षणात् ॥
या न ययौ प्रियमन्यवधूभ्यः सारतरागमना यतमानम् । तेन सहेह बिभर्ति रहः स्त्री सा रतरागमनायतमानम् ॥४५॥ या नेति ॥ इहादावन्यवधूभ्यः स्यन्तरेभ्यः । पञ्चमी विभक्ते' इति पञ्चमी । सारतरं श्रेष्ठमागमनं यस्याः सा सारतरागमना । श्लाघ्यसंगमेत्यर्थः। या स्त्री यतमानं स्वप्राध्यै प्रयतमानम् । प्रार्थयमानमित्यर्थः। 'यती प्रयत्ने' शानच् । प्रियं न ययौ।सा तथा प्रतिकूलापि स्त्री रहस्तेन प्रियेण सह अनायतमानमदीर्घरोपं यथा तथा रतरागं सुरताभिलाषं बिभर्ति । अयमतिमानवतीरपि सद्य एवोद्दीपयतीति भावः । दोधकवृत्तम् । 'दोधकवृत्तमिदं भभभा गौ' इति लक्षणात् ॥