________________
सप्तमः सर्गः
1
अथ सर्वासामेव स्वेदोद्रेकं वर्णयतिगत्वोद्रेकं जघनपुलिने रुद्धमध्यप्रदेश: क्रामन्नूरुदुमभुजलताः पूर्णनाभीहदान्तः । उल्लङ्घ्योः कुचतटभुवं प्लावयन्रोमकूपा
वेदापूरो युवतिसरितां व्याप गण्डस्थलानि ॥ ७४ ॥
१८७
गत्वेति ॥ युवतय एव सरितस्तासां स्वेद एवापूरः प्रवाहः जघनमेव पुलिनं तत्रोकं गत्वा रुद्ध आवृतो मध्यप्रदेशोऽवलग्नभागः, प्रवाहदेशश्च येन स पूर्णनाभीहृदान्तः । रेफान्तमकारान्तं वा । पूर्णेति पूरेर्ण्यन्तात्कर्मणि क्तः । ' वा दान्त- ' इत्यादिना णिलुगिप्रतिषेधनिपातः । उच्चैरुन्नतौ कुचावेव तटौ तयोर्भुवं प्रदेशमुल्लङ्घय रोमकूपान्रोमाणि रोमरन्ध्राणि तान्येव कूपान्प्लावयन्पूरयन् गण्डस्थलानि कपोलभागान्, उन्नतभूभागांश्च प्राप । अत्र युवतिषु सरित्त्वस्य तदवयवेष्ववयवानां च निरूपणात्समवस्तुविषय सावयवरूपकं श्लेषानुप्राणितम् । मन्दाक्रान्ता वृत्तम् । 'मन्दाक्रान्ता जलधिषडगैम्भौं नतौ ताद्गुरू चेत्' इति लक्षणात् ॥ एवमध्वश्रमानुभावं स्वेदोद्वेकं वर्णयित्वा तत्फलभूतां जलविहारेच्छामासां दर्शयति
प्रियकरपरिमार्गादङ्गनानां यदाभूत्पुनरधिकतरैव स्वेदतोयोदयश्रीः । अथ वपुरभिषेक्तुं तास्तदाम्भोभिरीषुवनविहरणखेदम्लानमम्लानशोभाः ।। ७५ ।।
इति श्रीमाकृतौ शिशुपालवधे महाकाव्ये य वनविहारो नाम सप्तमः सर्गः ॥ ७ ॥
प्रियेति ॥ यदा अङ्गनानां प्रियकरपरिमार्गात्प्रियकरस्पर्शात् । मृजेर्घञ् प्रत्ययः । स्वेदतोयोदयश्रीः स्वेदोद्गमसंपत् पुनर्भूयोऽप्यधिकतरैवाभूत्तदा अग्लानशोभा अक्षीणकान्तयः । वपुषि म्लानेऽपीति भावः । ता अङ्गना वनविहरखेदेन म्लानम् । म्लायतेः कर्तरि क्तः । 'संयोगादेरातो धातोर्यण्वतः' इति निष्टानत्वम् । वपुरङ्गम् । अथ कात्सूर्येन । 'मङ्गलानन्तरारम्भप्रश्नकात्सूर्येष्वथो अर्थ' इत्यमरः । अम्भोभिरभिषेक्तुमीषुरिच्छन्ति स्म । इषेर्लिट् । अत्र पूर्ववाक्यार्थस्योत्तरवाक्यार्थसमर्थनहेतुकत्वेनोपनिबन्धाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः । मालिनी वृत्तम् ॥
1
इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध - काव्यव्याख्याने सर्वंकषाख्ये सप्तमः सर्गः ॥ ७ ॥