________________
१८६
शिशुपालवधे
मपि घनपुलकोदयेन सान्द्ररोमोद्गमेन कोमलं सदिति विरोधः । विपुलं विस्तृतं तदेव विपुलकमित्यविरोधः । प्रियैः प्रकामं परितो मलमस्येति परिमलं तत्कृतं परिमलितं मलिनीकृतं तथाप्युज्वलं विमलमेव चकाश इति विरोधः । परिमलवत्कृतं परिमलितमित्यविरोधः । मत्वन्तात् 'तत्करोति-' इति णिचि कर्मणि क्तः । णाविष्टवद्भावे विन्मतोलृक् । अपिविरोधे । विरोधाभासालंकारयोः संसृष्टिः ॥
अथैकस्याः प्रियकण्ठावलम्बने श्रमानुभावमेकेनाहअविरतकुसुमावचायखेदान्निहितभुजालतयैकयोपकण्ठम् । विपुलतरनिरन्तरावलमस्तनपिहितप्रियवक्षसा ललम्बे ॥ ७१ ॥
अविरतेति ॥ अविरतो यः कुसुमानावचायो हस्तेन लवनम् । 'हस्तादाने चेरस्तेये' इति घञ् । तेन यः खेदस्तस्माद्भर्तुरुपकण्ठं कण्ठे। विभक्त्यर्थेऽव्ययीभावः । निहिते भुजालते यया तया । 'दोः प्रकोष्ठो भुजो बाहुर्भुजा च मर्यते बुधैः' इति वैजयन्ती । विपुलतरौ निरन्तरमवलग्नौ संश्लिष्टौ च यो स्तनौ ताभ्यां पिहितं छादितं प्रियस्य वक्षो यया तयैकया स्त्रियाललम्बे लम्बितम् । भावे लिट् ।
अथापरस्या अङ्गभङ्गाख्यमपरमनुभावमाहअभिमतमभितः कृताङ्गभङ्गा कुचयुगमुन्नतिवित्तमुन्नमय्य । तनुरभिलषितं क्लमच्छलेन व्यवृणुत वेल्लितबाहुवल्लरीका ॥ ७२ ।।
अभिमतमिति ॥ तनुः काचित्तन्धी । 'वोतो गुणवचनात्' इति विकल्पादनीकारः। अभिमतमभितः । प्रियमभीत्यर्थः । उन्नतिवित्तं औन्नत्येन प्रतीतम् । विदेर्भावार्थात् 'वित्तो भोगप्रत्यययोः' इति प्रत्ययार्थे निष्ठानत्वाभावनिपातः । कुचयुगमुन्नमय्योत्तुङ्गीकृत्य कृतोऽङ्गभङ्गो गात्रविजृम्भणं यया सा । तथा वेल्लिते मिथोवेष्टिते बाहुवल्लयौं भुजलते यया सा । 'नवृतश्च' इति कप् । क्लमच्छलेन। श्रमापनोदकचेष्टाव्याजेनेत्यर्थः । अभिलषितमालिङ्गनाद्यभिलषितं व्यवृणुत प्रकटितवती । वृणोतेर्लङ् । प्रौढेयमुत्सुका च ॥ __ अथ कस्याश्चिन्मुग्धायाः प्रियचापलोक्तिद्वारा स्वेदोद्गमं प्रकटयतिहिमलवसदृशः श्रमोदविन्दूनपनयता किल नूतनोढवध्वाः । कुचकलशकिशोरको कथंचित्तरलतया तरुणेन पस्पृशाते ॥७३॥
हिमेति ॥ हिमलवसदृशो हिमकणनिभाश्रमोदबिन्दून् । स्वेदबिन्दूनित्यर्थः । 'मन्थौदन-' इत्यादिना उदकस्योदादेशः । अपनयता किल प्रमार्जतेव न तु तत्र तात्पर्यमिति भावः । तरुणेन यूना नूतनोढवध्वाः कुचौ कलशाविव तौ च किशोरकाविव । उल्लसनसाम्यादश्वशावाविव । 'अश्वशावः किशोरकः' इत्यमरः । तौ कुचकलशकिशोरको । उभयत्राप्युपमितसमासः । कथंचित्क्लेशेन । सप्रतिषेधमेवेत्यर्थः । तरलतया चपलतया । उत्सुकतयेत्यर्थः । पस्पृशाते स्पृष्टौ । स्पृशेः कर्मणि लिट् । मुग्धेयम् ॥
।