________________
शिशुपालवधे
अष्टमः सर्गः ।
अथ वपुरभिषेक्तुं तास्तदाम्भोभिरीषुरित्युक्तं तदेव वर्णयितुमारभते
आयासादलघुतरस्तनैः स्वनद्भिः श्रान्तानामविकचलोचनारविन्दैः ।
अभ्यम्भः कथमपि योषितां समूहैस्तैरुवनिहितचलत्पदं प्रचेले ॥ १ ॥
१८८
आयासादिति ॥ अलघुतरस्तनैः पृथुतरकुचैरिति मान्य हेतूक्तिः । स्वनद्भिभूषाभिः श्रमश्वासैर्वा शब्दायमानैः । 'स्वन शब्दे' इति धातोर्लटः शत्रादेशः । अविकचलोचनारविन्दैः श्रमनिमीलिताक्षिपद्मैरायासाद्वनविहारखेदाच्छ्रान्तानां क्लान्तानां योषितां तैः समूहैः कर्तृभिः उर्व्यां निहितानि निक्षिप्तानि । 'हुधान् धारणे' इति धातोः कर्मणि क्तः । तथैव चलन्ति पदानि यस्मिन्कर्मणि यद्यथा तथा । उत्क्षेपणाशक्त्या भुवि बलादाकृष्यमाणचरणमित्यर्थः । अभ्यम्भोऽम्भःप्रति कथमपि प्रचेले प्रचलितम् । भावे लिट् । स्वभावोक्तिरलंकारः । ' स्वभावोक्तरसौ चारु यथावद्वस्तुवर्णनम्' इति लक्षणात् । अस्मिन्सर्गे प्रहर्षिणी वृत्तम् | 'नौ नौ गस्त्रिदशयतिः प्रहर्षिणीयम्' इति लक्षणात् ॥
यान्तीनां सममसितभ्रुवां नतत्वादंसानां महति नितान्तमन्तरेऽपि । संसक्तैर्विपुलतया मिथो नितम्बैः संबाधं बृहदपि तद्बभूववर्त्म ॥ २ ॥
यान्तीनामिति ॥ समं पकिशो यान्तीनाम् । 'आच्छी नद्योर्लुम्' इति वैकfeपको नुमागमः । असितभ्रुवां स्त्रीणामंसानां नतत्वाद्धेतोर्नितान्तं महत्यन्तरे अवकाशे सत्यपि विपुलतया हेतुना मिथः संसक्तैरन्योन्यश्लिष्टैर्नितम्बैर्बृहद्विस्तृतमपि संबाध्यत इति संबाधः संकटम् । 'संकटं ना तु संबाधः' इत्यमरः । घञन्तस्यापि विशेष्यलिङ्गत्वं संबाधमनुवर्तत इति भाष्यकारादिप्रयोगादिष्यते । बभूव । नतांसत्वनितम्बवैपुल्योक्त्या सौन्दर्यातिशय उक्तः । असंत्रा - धेsपि संबाधाभिधानादतिशयोक्तिः ॥
नीरन्धमशिशिरां भुवं व्रजन्तीः साशङ्कं मुहुरिव कौतुकात्करैस्ताः । पस्पर्श क्षणमनिलाकुलीकृतानां शाखानामतुहिनरश्मिरन्तरालैः ॥ ३ ॥