________________
अष्टमः सर्गः 1
१८९
नीरन्ध्रेति ॥ नीरन्यैः सान्द्रैर्दुमैः शिशिरां भुवं व्रजन्तीर्गच्छन्तीस्ताः स्त्रीरतुहिनरश्मिरुष्णांशुः क्षणमनिलेनाकुलीकृतानां चालितानां शाखानामन्तरालैनरन्ध्रत्वेऽपि मुहुरनिलचालनजनितैरवकाशैर्मुहुः कौतुकादौत्सुक्यादिव साशङ्कम् । परदारत्वात्सभयमित्यर्थः । करैः पस्पर्श स्पृष्टवान् । अन चलच्छाखा हेतुकस्य तपनकरस्पर्शस्यौत्सुक्यहेतुकत्वोत्प्रेक्षणाद्गुणहेतुप्रेक्षा ॥
अथ कस्याश्चित् श्वेतातपत्रं चन्द्रत्वेनोत्प्रेक्षते - एकस्यास्तपनकरैः करालिताया विभ्राणः सपदि सितोष्णवारणत्वम् । सेवायै वदनसरोजनिर्जितश्री
रागत्य प्रियमिव चन्द्रमाश्चकार ॥ ४ ॥
एकस्या इति ॥ वदनसरोजेन स्त्रीमुखपङ्कजेन निर्जितश्रीश्चन्द्रमाः । एतेन वदनसरोजस्य चन्द्रविजयात्सरोजान्तरवैलक्षण्यं चन्द्रस्य निकृष्टत्वं चोक्तम् । अत एव सेवायै तत्सेवनार्थमागत्य तपनकरैः करालिताया भीषितायाः । पीडिताया इत्यर्थः । ' करालो भीपणेऽन्यवत्' इति विश्वः । एतेन सेवावकाशो दर्शितः । एकस्याः कस्याश्चिदङ्गनायाः सपदि आतपक्षण एव सितोष्णवारणत्वं स्वयमेव श्वेतातपत्रत्वं बिभ्राणः सन्प्रियं चकारेव । इति क्रियास्वरूपोत्प्रेक्षा । पराजितः कयाचित्सेवनया जेतुश्चित्तसंतोषमुपार्जयतीति भावः ॥
स्वं रागादुपरि वितन्त्रतोत्तरीयं कान्तेन प्रतिपदवारितातपायाः । सच्छत्रादपरविलासिनीसमूहा
च्छायासीदधिकतरा तदा परस्याः ॥ ५ ॥
स्वमिति ॥ रागाद्धेतोरुपरि प्रियाया मूर्धनि स्वं स्वकीयमुत्तरीयं वितन्वता विस्तारयता कान्तेन प्रियेण प्रतिपदं पदेपदे वारित आतपो यस्यास्तस्या अपरस्याः कस्याश्चिदङ्गनायाः सच्छत्रात् छत्रयुक्तादपरविलासिनीसमूहात्सकाशात् । 'पञ्चमी त्रिभक्तेः' इति पञ्चमी । अधिकतरा छाया अनातपः कान्तिश्च तदा आसीत् । छत्रच्छायातोऽपि कान्तस्वहस्तधृतोत्तरीयच्छायैवानन्यसाधारणी ज्यायसी । मुखकातिरपि तस्या एव भूयसीति भावः । 'छाया वनातपे कान्तौ ' इत्यमरः । एतेन सच्छत्रादच्छत्रस्याधिकच्छायेति विरोधोऽपि निरस्त इति विरोधाभासोऽलंकारः ॥ संस्पर्शप्रभवसुखोपचीयमाने सर्वाङ्गे करतललग्नवल्लभायाः । कौशेयं व्रजदपि गाढतामजस्रं
सस्रंसे विगलितनीवि नीरजाक्ष्याः || ६ || संस्पर्शेति ॥ करतले लग्नो वल्लभो यस्यास्तस्याः । स्वहस्तेन तद्वस्तं गृहीत्वा