________________
शिशुपालवधे गच्छन्त्या इत्यर्थः । अत एव नीरजाक्ष्याः सर्वाङ्गे संस्पर्शप्रभवेन प्रियाङ्गप्रभवेन सुखेनोपचीयमाने पोषं गमिते सति अत एव गाढतां दृढत्वं व्रजदपि विगलित. नीवि सुखपारवश्याद्विश्लिष्टग्रन्थि कौशेयं दुकूलमजस्रं सत्रंसे सस्तम् । एषा हृष्टा हर्षितरोमा च ॥
गच्छन्तीरलसमवेक्ष्य विसयिन्य
स्तास्तन्वीन विदधिरे गतानि हंसः । बुद्धा वा जितमपरेण काममावि
__कुर्वीत स्वगुणमपत्रपः क एव ॥७॥ गच्छन्तीरिति ॥ हंस्यो हंसाङ्गना अलसं मन्दं गच्छन्तीस्तास्तन्वीः स्त्रीरवेक्ष्य विसयिन्यो गतिसौष्ठवाद्विस्मयवत्यः सत्यो गतानि स्वयं लीलागमनानि न विदधिरे न चक्रः । लजयेति भावः । तथा हि परेण जितं स्वगुणं बुद्धवा वा । बुद्धा. पीत्यर्थः । क एव को वा अपत्रपः सन्काममाविष्कुर्वीत प्रकाशयेत् । न कश्चिदपी. त्यर्थः । 'इदुदुपधस्य चाप्रत्ययस्य' इति विसर्जनीयस्य पत्वम् । अत्र तिरश्वां विवे. कित्वातिशयोक्त्या गतिकरणनिषेधसमर्थनार्थोऽयमर्थान्तरन्यासः ॥
श्रीमद्भिर्जितपुलिनानि माधवीना
मारोहैर्निबिडबृहनितम्ब बिम्बैः । पाषाणस्खलनविलोलमाशु नूनं
वैलक्ष्याद्ययुरवरोधनानि सिन्धोः ॥ ८॥ श्रीमद्भिरिति ॥ श्रीमद्भिः शोभावद्भिः निबिडा बृहन्तश्च नितम्बबिम्बाः कटिपश्चाद्भागा येषां तैः माधवस्येमा माधव्यस्तासां हरिवधूनां आरुह्यन्त इत्यारोहैः कटिपुरोभागैर्जघनैः जितपुलिनानि जितसैकतानि सिन्धोरवरोधनानि समुद्रमहिष्यः । नद्य इत्यर्थः । वैलक्ष्यात्पराजयकृतमनःसंकोचाद्धेतोः पाषाणेषु स्खलने. नाभिघातेन विलोलं यथा तथा आशु ययुः अगुः नूनम् । नदीनां स्वाभाविक्याः पाषाणस्खलिताशुगते_लक्ष्यहेतुकत्वोत्प्रेक्षणाद्गुणहेतूत्प्रेक्षा ॥
मुक्ताभिः सलिलरयास्तशुक्तिपेशी
मुक्ताभिः कृतरुचि सैकतं नदीनाम् । स्त्रीलोकः परिकलयांचकार तुल्यं
पल्य१विगलितहारचारुभिः स्वैः ॥९॥ मुक्ताभिरिति ॥ स्त्रीलोकः स्त्रीजनः कर्ता । सलिलरयेणास्ता नुन्नाः शुक्तयो मुक्तास्फोटास्त एव पेश्यः कोशाः । पुटा इति यावत् । 'मुक्तास्फोटः स्त्रियां शुक्तिः-' इति, 'पेशी कोशो द्विहीने' इति चामरः । ताभिर्मुक्ताभिर्विमुक्ताभिमौंक्तिकैः । 'अथ मौक्तिकं मुक्ता' इत्यमरः । कृतरुचि कृतशोभं नदीनां सिकतामयं