________________
पञ्चदशः सर्गः।
३८१
स्तुतिस्तु-एष भगवांश्चलता पादयुगलेन गुरु शकटमीषदेवास्पृशत् । अथ चोदलसत्परिवृत्तम् । यत् एतेन देवेन भगवता कलितं प्रेरितम् । अथेति विस्मये । ईषत्स्पर्शमात्रास्किल भङ्गो न युक्तः । शकटशब्दोऽस्त्रीलिङ्गः ॥ स्नुवतामुना स्तनयुगेन जनितजननीजनादरा । स्त्रीति सदयमविधाय मनस्तदकारि साधु यदधाति पूतना ॥२३॥
नुवतेति ॥ अमुना यत् पूतना राक्षसी स्त्री इति सदयं मनः अकृत्वा अघाति हता तत्साध्वकारि युक्तं कृतमिति काका प्रयोजने, नैव साधु कृतमित्यर्थः । कीदृशी सा । नुवता क्षीरं स्रवता स्तनयुगेन कृतो जननीजनादरो मातृस्नेहो यया अतश्च मातृघात्येवायम् । इति निन्दा ॥
स्तुतिस्तु-यदमुना स्त्रुवता स्तनयुगेन कृतमातृस्नेहापि पूतना राक्षसी स्त्रीति मनः सदयमकृत्वा हता तत्साध्वकारि युक्तमेवानुष्ठितमिति स्पष्ट एवार्थः। सा हि राक्षसी स्तनाभ्यां सविषं क्षीरं स्रवन्ती तन्मारणार्थमेवागमदित्यागमार्थः । निष्कारणवधोद्यतस्य वधे कथमधर्मः स्यात् ॥ अभनक्तरू कथमिवैष कृतधरणिरिङ्गणः क्षणात् । बाढमिदमपि न बालकृतं ननु देवताविधिरयं विजृम्भते ॥२४॥
अभनगिति ॥ कृतधरणिरिङ्गणो विहितो/गतिः स कथमिव केन प्रकारेण क्षणेनैव तरू अर्जुनाख्यौ बाढं भृशमभनग्बभञ्ज । न संभावयाम एतदित्यर्थः । ननु सर्वत्रैव तेनैव भिन्नाविति प्रतीतिः तत्कथं भवतो न संभावनेत्याह-इदमपि न बालकृतं न शिशुकर्म । ननु देवताविधिरयं विजृम्भते विलसति । केनाप्यदृष्टेन देवेन तत्कृतं न स्वनेन । यस्य हि गमनमात्रे न शक्तिः स कथममानुपं कर्म कुर्यादिति भावः। ननु अमर्षे । न केवलं शकटभङ्गो देवताविधिविदयमपीत्यपिशब्दार्थः । इति निन्दा ॥ ___ स्तुतिस्तु-यदेप कृतधरणिरिङ्गणः कथमिवावस्विव क्षणादर्जुनौ बभञ्ज इदमपि न बालकृतम् । नन्वयं देवताविधिरुज्जृम्भते । एतस्य देवरूपत्वं देवत्वमाश्रित्यैतदेतेन कृतम् नतु तत्वतो बालेनेत्यर्थः । ननुराभिमुख्ये । अभनगिति भञ्जलङि रूपम् ॥ विहरन्वने विजन एव महति दधदेष गोपताम् । नाम जगति मधुसूदन इत्यगमद्धतेन मधुना महीयसा ॥२५॥
विहरनिति ॥ एष महति विशाले विजने वनेऽरण्ये गोपरूपो विहरन्बृ. हता मधुना माक्षिकपटलेन हतेन जगति मधुसूदन इति नाम प्राप्तवान् । वने मधु सूदितवान् नतु मधुनामानं दैत्यम् । इति निन्दा ॥
स्तुतिस्तु-एष कृष्ण एव महीयसा बलवत्तरेग मधुना दैत्येन मृतिविषयीभूतेन