________________
३८२
शिशुपालवधे मधुसूदन इति नाम जगति अगमत्प्राप । कीदृगेषः-वने ते.ये महति सर्वलोक. व्यापिनि विगतजने विहरन् । तथा गां पृथ्वी गोपस्तद्भावं बिभ्रत् ॥
अविमृश्य गोवधसमुत्थमयमघममीमरद्रुषा । रिष्टमुपगु समुपोढमदं यदसौ किलासुर इति प्रमाटि तत् ॥२६॥
अविमृश्येति ॥ अयं गोवधसमुत्थं तन्मारणोद्भवं पापमविमृश्यागणयित्वा यद्रुषा कोपेन रिष्टमनड्वाहममीमरदवधीत्तदकार्यम् । असौ पापी असुर इति किल प्रमार्टि नाशयति । दान्तरूपी असुरो मया हतो न तु गौरिति लोकस्य परिशुध्यति । किलालीके । तत्वतस्त्वसौ गौरव, अयं च गोघातीत्यर्थः । कीदृशं रिष्टम् । उपगु गवां समीपे समुपोढमदं तहर्षम् । सुरभीः कामयमानमित्यर्थः। अतश्च सुरतासक्तदान्तवधपातकित्वान्नायं पूजार्ह इति ॥
स्तुतिस्तु-किलशब्दस्य सत्यार्थत्वात् । यदसावुपगु गोनिकटे रिष्टमतृणेद तदसौ किलासुर इति प्रमाटि । असुर एवानेन हत इत्यर्थः। कीदृशं तम्भविमृश्यश्चिन्तयितुमशक्यो यो गोवधस्तत्र समुत्थ उत्थानमुद्यमो यस्य तमविमृश्यगोवधसमुत्थं यतोऽघं पापिनम् । अघमस्यास्तीति कृत्वा । तथा समुपोढमदं तदर्पम् । अतश्च गोवधसमुत्थस्य दर्पिष्ठस्य पापमतेर्दानवस्य वधाद्भगवतो महती नुतिरेव । अविमृश्येति ल्यप् । 'ऋदुपधात्-' इति क्यप् । अमी मरदिति मारयतेलुङ् चङ् । प्रमार्टीति मृजेर्वृद्धिः ॥ मुखकन्दरान्तरगतोऽपि विकटदशनेन केशिना । नास्य सपदि यदखादि भुजस्तदहो तिरश्चि सहजैव मूढता॥२७॥
मुखेति ॥ अस्य केशिनाम्ना अश्वेन यद्भुजो नाखादि न जग्धः तदहो तिरश्चि तिर्यक्षु सहजैव स्वाभाविक्येव मूढता अज्ञत्वं, तिर्यक्त्वात् । मूर्खेण तेन न भक्षितो न त्वस्य कापि शक्तिरिति वाक्यार्थः। कदाचिदप्राप्तोऽसौ भवेन्ने. त्याह-आस्यदरीविवरप्राप्तः । कदाचिद्दन्ताभावः स्यादित्याह-विकटदशनेन दन्तुरेणापि सपदि अस्य प्रायनन्तरम् । अहो विषादे ॥
स्तुतिरत्र-परमतमाशक्य काकुप्रयोगेण । यदस्य केशिना दैत्येन भुजो नाखादि तत्किं, तिरश्चि सहजैव मूढता न त्वस्य माहात्म्यमित्यर्थः । एतस्यैव ह्येवमसौ शक्तिः । न स तात्त्विकोऽर्थः । अहोशब्दः परस्योल्लुण्ठनाय । तिरश्चीति सप्तमी ॥ यदुदस्य बाहुमयमेकमधृत गिरिमद्भुतं न तत् । भूरि सलिलमविषयमियं जलदे विमुञ्चति गवां सभाग्यता ॥२८॥
यदिति ॥ मेघे दुःसहं प्रभूतं वारि वर्षति यदयं हरिरेकभुजमुक्षिप्य गिरि गोवर्धनमत दधे तन्नाद्भुतं नाश्चर्यम् । इयं गवां सभाग्यता पुण्यवत्त्वम् । गवां महिनासौ तो न त्वेतस्य काचिच्छक्तिरित्यर्थः । इति निन्दा ॥