________________
पञ्चदशः सर्गः।
३८३
स्तुतिस्तु-परमतमाशय काकुप्रयोगेण न तदद्भुतम् , अपि त्वाश्चर्यमेव । तथेयं गवां सभाग्यता किम् , न त्वस्य सा । अयमेव स्वमहिम्ना बभारेत्यर्थः ॥ किमिवात्र चित्रमयमन्नमचलमहकल्पितं यदि । प्राश निखिलमखिलेऽपि जगत्युदरं गते बहुभुजोऽस्य न व्यथा २९ किमिवेति ॥ अयं हरिरचलमहकल्पितं पर्वतोत्सवकृतमन्नं यदि प्राश भुक्तवास्तत्किमिवान चित्रमाश्चर्यम् । कतोऽस्य बहुभुज औदरिकस्य सकलेऽपि जगत्युदरं प्राप्ते न व्यथा पीडा अजीर्णत्वात् । अतश्च यः कुक्षिभरत्वात्सर्वमेव जिवत्सति तस्यौदनमात्रभोजनाको विस्मयः । इत्यात्मभरित्वकथनेन निन्दा ॥
स्तुतिस्तु-अस्यान्नादनात्को विस्मयः । यतोऽस्य जगन्निवासस्य सर्वेषु जगसूदरस्थितेषु न व्यथा । बहु भुनक्तीति बहुभुक् निखिलभुवनपालकः। यदि वा बहवो भुजा यस्य स बहुभुजोऽयम् । पूर्वत्र तु बहु भुङ्क्ते इति बहुभुक् । प्राशेत्यत्राश्नातेर्लिट् ॥
अमुना करेण पृथुदन्तमुसलमुदखानि दन्तिनः। तेन यदवधि म एव पुनर्बलशालिनां क इव तत्र विस्मयः ॥३०॥
अमुनेति ॥ अमुना हरिणा दन्तिनः कुवलयापीडस्य यत्पृथुदन्तमुसलं करेणो. दपाटि उत्खातम् । तेनोखातेन योऽसौ हस्ती अवधि हतः तत्र बलशालिनांक इव विस्मयः । न युक्तस्तत्र विस्मयः। मर्महननाद्धि शिशुरपि मारयति । इति निन्दा ।
स्तुतिस्तु काका गम्यते-को विस्मयः । विस्मय एवेत्यर्थः । स तु हस्तिनो हन्तुमशक्यत्वादिति भावः । यदुक्तम्-'एकः क्रुद्धो गजो हन्ति षट्सहस्राणि वाजिनाम्' । अवधीति कर्मणि लकारः च्लेश्चिण अकारलोपः ॥ शिशुरेव शिक्षितनियुद्धकरणमकृतक्रियः स्वयम् । मल्लमलघुकठिनांमतटं न्यवधीद्यदेप तददृष्टकारितम् ॥ ३१ ॥ शिशुरिति ॥ एष हरिः शिशुरेव बालः सन् यन्मल्लं चाणूराख्यं न्यवधीजघान तददृष्टकारितं दैवविहितम् । विधिवशाध्य बलोऽपि बलीयांसमभिभवति । तदेव बलवत्वमाह-कीदृशं मल्लम् । शिक्षितानि नियुद्धकरणानि बाहुयुद्धक्रियाः येन तं शिक्षितनियुद्धकरणं युद्धक्षं, तथा अलघु पीनं कठिनमंसतट अन्य तम् । एष तु स्वयमकृतक्रियोऽशिक्षितकरणः । यतः शिशुः इति निन्दा ॥
स्तुतिस्तु-पूर्ववत्काका । तत्किमदृष्टकारितं नैतदेवविजृम्भितम् , अपि त्वस्यै वायं महिमेत्यर्थः ॥
यदयुध्यमानमपि सन्तमुपहितसुरौघसाध्वसम् । कंसमभिमययमभ्यम समुदा जनेन तदपि प्रशंस्यते ॥ ३२ ॥ यदिति ॥ यदयमयुध्यमानं कसं स्वजनमप्यभ्यभवदाचकर्ष तदपि समुदा