________________
३८४
शिशुपालवधे
जनेन प्रशंस्यते नैवाभिनन्द्यत इति काकुप्रयोगः । निष्क्रियस्य हि वधे का नाम स्तुतिः। कीदृशं तम्-जनितदेवपूगकम्पम् । अभियं त्रासरहितम् । वीरमित्यर्थः । इति निन्दा॥
स्तुतिस्तु-अयुध्यमानमपि सन्तं कंसमभियं त्रासरहितं वीरं यदभ्यभवत्तदपि संतोषवता जनेन प्रशंस्यते स्तूयत एव । यत उपहितसुरौघसाध्वसं, सदर्प च । कण्टकोद्धरणेन चावश्यं प्रहृष्टो जनः प्रशंसां करोति ॥ इति निन्दितं कृतधियापि वचनममुना यदाददे । स्तोतुमनिशमुचितस्य परैः स्तुतिरेव सा मधुनिघातिनोऽभवत् ३३
इतीति ॥ इत्युक्तप्रकारेण अमुना चैद्येन यद्वच आददेऽभ्यधायि। [सा] मधुरिपोर्नुतिरेवाभवत् । कदाचित्तुष्टुपुरसौ स्यादित्याह-निन्दितुं कृतधिया. पीति । किंविधस्य हरेः । परैः शत्रुभिरपि स्तोतुमजस्रं योग्यस्य । अत एतत्स्तुतिरभवत् । एतेन पूर्वेषां वाक्यानामुभयार्थता ख्याता यथा तथा व्याख्यातमेव । आददे इत्यस्य विहरणस्याशब्दार्थत्वात्प्रतिषेधाभावः प्रतीयते । अत्र तन्न तु शब्दोपात्तं यथा आस्यं व्याददातीति । मधुं निहन्तीत्यावश्यके णिनिः । 'कर्मणि हनः' इत्यर्थकुत्सायाम् ॥
यदुवाच दुष्टमतिरेष परिविवदिषुर्मुरद्विषम् । व्यर्थमपि सदसि चेदिपतेस्तदतोऽपराधगणनामगाद्वचः ॥३४॥
यदुवाचेति ॥ एष सभायां यद्वचोऽवोचत्तदुभयार्थ निन्दास्तुतिवाचकमप्यतो हेतोरपराधगणनामगादपराधगणनामध्ये गणितम् । यतो दुष्टत्वान्मुरारि परिविवदिषुर्निनिन्दिषुः । तेन हि तद्वच आक्रोशतयोक्तम् । या तु तस्य स्तोत्ररूपता सा काकतालीयेति भगवतो वा माहात्म्यम् । नैतावतासौ प्रियंवद इति अपराधगगनामगात् । यस्मादेष दुष्टमतिः सन् देवं परिविवदिषुराह इत्येवं वा योज्यम् ॥
इति प्रक्षिप्तश्लोकाः ॥ ३४ ॥ इति वाचमुद्धृतमुदीर्य सपदि सह वेणुदारिणा। सोहरिपुबलभरोऽसहनः स जहास दत्तकरतालमुच्चकैः ॥ ३९॥
इतीति ॥ सोढः क्षान्तो रिपूणां बलभरो वीर्यातिशयो येन सः न सहत इत्यसहनः असहिष्णुः स चैद्य इतीथमुद्धतं निष्ठुरं यथा तथा वाचमुदीर्य सपदि वेणुदारिणा नरकात्मजेन सह दत्तः करतालः परस्परपाणिताडनं यस्मिन्कर्मणि तद्यथा तथा उच्चकैस्तारं जहास । कृष्णदोषोद्धाटनहर्षादट्टहासं चकारेत्यर्थः । स्वभावोक्तिः ॥ कटुनापि चैद्यवचनेन विकृतिमगमन्न माधवः । सत्यनियतवचसं वचसा सुजनं जनाचलयितुं क ईशते ॥४०॥