________________
पञ्चदशः सर्गः।
३८५
कटुनेति ॥ माधवः कटुनापि चैद्यवचनेन विकृतिं नागमत् । गमेलुङि 'पुषादि-' इति च्लेरङादेशः । तथाहि सत्ये नियतवचसमस्खलितवचसं सत्यसंधं सुजनं के जनाः वचसा । तीवेणापीति भावः । चलयितुमीशते शक्नुवन्ति । न केऽपीत्यर्थः । 'सहिप्ये शतमागांसी ति प्रतिज्ञाभङ्गभयादसहतेति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः॥ न च तं तदेति शपमानमपि यदुनृपाः प्रचुक्रुधुः । शौरिसमयनिगृहीतधियः प्रभुचित्तमेव हि जनोऽनुवर्तते ॥४१॥
न चेति ॥ किंचेनि चार्थः । तदा तत्काले इतीत्थं शपमानमाक्रोशन्तमपि । 'शपतेराकोशे' इति भट्टमल्लः । तं चैद्यं यदुनृपा यादवाः शौरेः कृष्णस्य समयेन संकेतेन निगृहीतधियो निरुद्धबुद्धयः सन्तो न प्रचुक्रुधुः । 'क्रुधद्वहोरुपसृष्टयोः कर्म' इति कर्मत्वम् । तथाहि जनो लोकः प्रभुचित्तमेवानुवर्तते । शौरिसंकेतनिरुन्द्वबुद्धेर्यदुविशेषणगत्या क्रोधाभावहेतुत्वाकाव्यलिङ्गमर्थान्तरन्यासेन संकीर्यते ॥ विहितागसो मुहुरलङ्ग्यनिजवचनदामसंयतः । तस्य कतिथ इति तत्प्रथमं मनसा समाख्यदपराधमच्युतः॥४२॥
विहितेति॥ अलयेन निजवचनदाम्ना स्वप्रतिज्ञापाशेन संयतो बद्धोऽच्युतः मुहुर्विहितागसः पूर्व सहस्रशः कृतापराधस्यापि तस्य चैद्यस्यापराधं स एव प्रथमो यस्मिन्कर्मणि तत्प्रथमं यथा तथा कतिथः । कतीनां पूरण इति तस्य पूरणे डट्' इति डट्प्रत्ययः । 'षट्कतिकतिपयचतुरां थुक्' इति थुगागमः । मनसा समाख्यद्गणनां चकार । 'अस्यतिवक्तिख्यातिभ्योऽङ्' इति च्लेरडादेशः । अत्र प्रतिज्ञापाशबन्धनस्य विशेषणगत्या प्राचीनापराधानन्त्येऽपि तात्कालिकापराधगणनाहेतुत्वाकाव्यलिङ्गभेदः ॥
स्मृतिवर्त्म तस्य न समस्तमपकृतमियाय विद्विषः । स्मर्तुमधिगतगुणसरणाः पटवो न दोपमखिलं खलूत्तमाः॥४३॥
स्मृतीति ॥ विद्विषश्चद्यस्य संबन्धि समस्तमपकृतमपकारजातम् । नपुंसके भावे क्तः । तस्य हरेः कृष्णस्य स्मृतिपथं नेयाय न प्राप । न तमपकारं सस्मारेत्यर्थः । अर्थान्तरं न्यस्यति-अधिगतगुणस्मरणाः परिचितोपकारस्मृतय उनमाः सजना अखिलं दोषमपकारं स्मर्तुं न पटवः खलु । नालं भवन्तीत्यर्थः । 'पर्याप्तिवचने वलमर्थेषु-' इति तुमुन्प्रत्ययः । उपकारमेव स्मरन्ति साधवो नापकारमित्यर्थः ॥ नृपतावधिक्षिपति शौरिमथ सुरसरित्सुतो वचः। माह चलयति भुवं मरुति क्षुभितस्य नादमनुकुर्वदम्बुधेः ॥४४॥ नृपताविति ॥ अथ नृपतौ चेदिपे शौरि हरिमधिक्षिपति सति सुरसरि
शिशु० ३३