________________
३८६
शिशुपालवधे
सुतो भीष्मः मरुति प्रलयमारुते भुवं चलयति कम्पयति सति क्षुभितस्यो - लस्याम्बुधेर्नादमनुकुर्वत्तद्वद्गभीरं वच आह स्म उवाच । 'लट् स्मे' इति भूतार्थे लट् । 'बुवः पञ्चानामादित आहो ब्रुवः' इति णल्याहादेशः । यद्यपि 'न पादादौ खल्वादयः' इत्याह वामनस्तथापि कविप्रौढ्या स्मशब्दस्य पादादौ प्रयोगः । उपमालंकारः ॥
उक्तमेवार्थं वक्तुराशयाविष्कारार्थमाह
अथ गौरवेण परिवादमपरिगणयंस्तमात्मनः ।
ग्राह मुररिपुतिरस्करणक्षुभितः स्म वाचमिति जाह्नवीसुतः || ४५ || अथेति ॥ अथ शिशुपालप्रलापानन्तरं मुररिपुतिरस्करणेन हरिनिन्दया क्षुभितः कलुषमना जाह्नवीसुतो गाङ्गेयः गौरवेण धैर्येण तमात्मनः परिवादं 'काममयं वृथापलित' इत्यादि स्वनिन्दामपरिगणयन् इति वक्ष्यमाणप्रकारेण वाचं प्राह स्म प्रोक्तवान् । गतमेतत् । धीराः स्वनिन्दामेव सहन्ते न गुरुदेवादिनिन्दामिति भावः । अत्र क्षोभस्य विशेषणगत्या वचनहेतुत्वात्काव्यलिङ्गभेदः ॥
विहितं मया सदसीदमपमृपितमच्युतार्चनम् ।
यस्य नमयतु स चापमयं चरणः कृतः शिरसि सर्वभूभृताम् ||४६ ॥ विहितमिति ॥ मया अद्य सदसि सभायां विहितं कृतं इदमच्युतार्चनं यस्यापमृषितमतितिक्षितम् । असोढमित्यर्थः । ' मृष तितिक्षायाम्' इति धातोः कर्मणि क्तः । उपसर्गवशाद्विपरीतार्थता । अत एव मृषस्तितिक्षायामेव कित्व - निषेधादतितिक्षार्थत्वान्न गुणः । ' मतिबुद्धिपूजार्थेभ्यश्च' इति चकाराद्वर्तमानार्थता । 'क्तस्य च वर्तमाने' इति षष्ठी । सोऽपभ्रष्टा पुरुषश्चापं नमयतु आरोपयतु । सर्वभूभृतां मिषतामिति भावः । शिरस्ययं चरणः कृतो न्यस्तः । अयमिति भूमौ पात्यमानस्य चरणस्य हस्तेन निर्देश: । अयं कोपामर्प इत्यनुसंधेयम् ॥
इति भीष्मभाषितवचोऽर्थमधिगतवतामिव क्षणात् । क्षोभमगमदतिमात्रमथो शिशुपालपक्षपृथिवीभृतां गणः ॥४७॥
इतीति ॥ इतीत्थं भीष्मेण भाषितस्योक्तस्य वचसोऽर्थमभिधेयं शिरसि पादन्यासरूपं क्षणादधिगतवताम् । प्राप्तवतामिव सतामित्यर्थः । शिशुपालस्य पक्षा ये पृथिवीभृतो राजानस्तेषामसौ गणोऽतिमात्रं क्षोभं क्रोधं विकारमगमत् । एतेनैषामात्मविनाशावसायी रौद्रस्थायी क्रोधः प्रादुरभूदित्युक्तम् । उत्प्रेक्षा ॥
अथैषां दशभिगीत्रारम्भान्क्रोधानुभावानाह — शितितारकानुमितताम्रनयन मरुणीकृतं क्रुधा । बाणवदनमुददीपि भिये जगतः सकीलमिव सूर्यमण्डलम् ||४८॥ शितीत्यादि ॥ कुधा क्रोधेन अरुणीकृतमत एव शिती श्यामे ये तारके