________________
३८०
शिशुपालवधे
स्तुतिस्तु-एष तुझं मानं प्रमाणं हित्वा नीचतां खर्वत्वं चावलम्ब्य । पुरा पूर्वमुस्कृष्टेन बलिना वैरोचनिना सह संप्रयुज्यते संप्रयुयुजे। यतः स्वस्थ ज्ञाते. रिन्द्रस्य योऽर्थः शत्रुवशीकरणलक्षणस्तत्र पटुः कुशलः । इन्द्रप्रीतये वामनरूपत्वमवलम्ब्यैष भगवान्बलिं बबन्धेत्यर्थः ॥ क्रमते नभो रभसयैव विरचयति विश्वरूपताम् । सर्वमतिशयगतं कुरुते स्फुटमिन्द्रजालमिदमेष मायया ॥२०॥
ऋमत इति ॥ एष कृष्णः स्फुटमिन्द्रजालसमद्भूतं मायया हेतुभूतया कुरुते । किमित्याह-रभसया रभसेन युद्धादौ नभः क्रमते आरोहति । वयः पक्षिणः, श्वानः कुक्कुराः तद्रूपा मृगाः तनावं विरचयति । यदि वा विश्वरूपतां नानारूपत्वम् । तथा सर्वमतिशयगतं विशेषप्राप्तं कुरुते । तात्त्विकोऽस्य व्यवहारो न कश्चित् । इति निन्दा ॥
स्तुतिस्तु-इदमीक् स्फुटमेष भगवान्मायया ऋया इन्द्रजालं कुरुते । इन्द्रजालमिवेन्द्रजालं भ्रमकारित्वात् । तदेवाह-नभः क्रमते बलिबन्धनार्थ विश्वरूपत्वं सर्वदेवमयत्वं विरचयति । सर्व च जगदतिशयगतं प्राप्त विशेष कुरुते । कीदृश्या मायया । रभसमौत्सुक्यं करोतीति रभसा तया रभसया । क्रमते इति, 'अनुपसर्गाद्वा' इत्यात्मनेपदम् ॥ | किल रावणारिरयमेव किमिदमियदेव कथ्यते । सत्त्वमतिबलमधिद्युति यत्तदशेषमेष इति धृष्टमुच्यताम् ॥ २१॥ किलेति ॥ अयं हरी रावणारिरिति । एतेन दशास्यो हत इति यदेवैतस्वल्पमात्रक किमिति कस्मादुच्यते । अतिबलं महाशक्ति अधिद्युति महातेजश्च यत्सत्वं प्राणी तत्सर्वमेष एवेति सृष्टं निःशङ्कमुच्यताम् । न ह्यलीकस्यान्तो भवतीति भावः । अतश्च येनासत्यं वाच्यं स बढेव कस्मान्नाह । तस्मान्नैतेन किंचिदपि कृतमिति वाक्यार्थः । इति निन्दा ॥
स्तुतिस्तु-अयं रावणारिरेवेति किमेतावदेवोच्यते । यस्माद्यदतिबलमधिद्युति च सत्त्वं तत्सर्वमेष इति सृष्टं निःशङ्कमुच्यताम् । उक्तं च किलागमे-'यद्यद्विभूतिमत्सत्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोऽशसंभवम् ॥' इति॥
यश्च बाल्ये शकटमेष एव चिक्षेपेत्युच्यते तदप्यसत्यमिति वक्तुमाहचलतैष पादयुगलेन गुरु शकटमीपदस्पृशत् । । दैवकलितमथ चोदलसद्दलितोरुभाण्डचयमात्मनैव तत् ॥२२॥
चलतेति ॥ एष वै चलच्यां चरणाभ्यां गुरु शकटं किंचिदस्पाक्षीत्। तच्च दैवकलितं दैवचोदितं स्वयमेवोदलसदपप्तत् । न त्वेतस्यात्र किंचित्पौरुषम् । दलितः स्फुटित उरुर्महाभाण्डानां दधिघृतकटादीनां चयो राशियंत्र । इति निन्दा ॥