________________
पञ्चदशः सर्गः 1
३७९
द्विषन्नखिलमध्ये तज्जगद्विश्वं स्वरुचैवात्मेच्छयैव सदोषं पश्यति । गुणद्वेषित्वादन्यानपि सदोषान्वेत्तीत्यर्थः । इति निन्दा ॥
अथ स्तुतिः - इह परमात्मनि कृष्णे परस्य बुद्धितत्त्वस्य महतोऽपि महत्तत्त्वस्य गुणाः सत्त्वरजस्तमांसि प्रलयं यान्ति नाशं गच्छन्ति । पुरुषं प्राप्य निवर्तन्त इत्यर्थः । कीदृशेऽत्र । निःसुखे सुखवर्जिते । अविक्रियत्वात् । सुखासुखे नात्मनः तथैष गुणान्सत्त्वादीन्द्विषन्नभिनन्दन्नस्पृशन्नदो जगत्प्रकृतिं सदोषं क्लेशयुक्तं पश्यतीक्षते । द्रष्टा हि पुरुषः प्रकृतेरिष्यते जगत्प्रकृतिर्हि भागो व्यक्तम् । तच्च सदोषं जननमरणयोगात् । केन पश्यति । स्वरुचा । आत्मभावेनेत्यर्थः ॥
एवं सांख्यदर्शनेन स्तुत्वा अधुना पुराणदर्शनेन तुष्टुपुर्निनिन्दिषुश्वाहक्षितिपीठमम्भसि निमग्नमुदहरत यः परः पुमान् । एष किल स इति कैरबुधैरभिधीयमानमपि तत्प्रतीयते ॥ १७ ॥ क्षितीति ॥ कैरबुधैर्मूखैरिति तदभिधीयमानमप्युच्यमानमपि प्रतीयते । मूर्ख एव सत्यमवगच्छतीत्यर्थः । इतीति किम् । स एष परमपुरुषः । यो वराहरूपेणाम्भसि निमग्नं क्षितिपीठं पृथ्वी मण्डलमुदहरतोद्धृतवान् । इति निन्दा |
स्तुतिस्तु — कैश्चिदभिधीयमानं तत् मूर्खेरपि प्रतीयते । मूर्खा अपि सत्यमवगच्छन्तीत्यर्थः ॥
नरसिंहमूर्तिरयमेव दितिसुतमदारयन्नखैः । आप्तजनवचनमेतदपि प्रतिपत्तुमोमिति जनोऽयमर्हति ॥ १८ ॥
नरसिंहेति ॥ नृसिंहवपुः सन्नयमेव नखैर्हिरण्यकशिपुमदारयदिति यदासवचनं तदप्ययं भीष्मादिक एव जन ओमित्येवमेवैतदिति प्रतिपत्तुमङ्गीकर्तुमर्हति । सुहृद एवैनं स्तुवन्ति, तच्च मूर्खेरेव सत्यं बुध्यत इत्यर्थः । इतिशब्दोत्रार्थयोः संबन्धोपादानायाध्याहार्यः ॥
स्तुतौ स्वयमर्थः - अयमेव भगवान्नापरो नरसिंहमूर्तिमाश्रित्य नखै दैत्येन्द्रमद्वारयदित्येतदप्याप्त जनवचनं शिष्टवाक्यमयं मनीषी जनः प्रतिपत्तुमर्हति नान्यः । भोवात्पण्डिता एव सत्यं जानन्तीत्यर्थः । आप्ता अवितथवादिनो व्यासादयः ॥
अपहाय तुङ्गमपि मानमुचितमवलम्ब्य नीचताम् । स्वार्थकरणपटुरेष पुरा बलिना परेण सह संप्रयुज्यते ॥ १९ ॥
1
1
अपहायेति ॥ एष बलिना बलवता परेणान्येनारिणा वा सह पुरा अचिरात्संप्रयुज्यते संबध्यते । समर्थ चेत्परं वेत्ति तद्भयात्तमेव प्रविशतीत्यर्थः । सर्वनामनिर्देशः सर्वत्र निन्दायामनास्थां सूचयति । स्तुतौ तु गौरवम् । किं कृत्वा । उचितं योग्यं तुङ्गमुन्नतं मानमध्यपहायाहंकारमपि त्यक्त्वा । तथा नीचत प्राकृतत्वमाश्रित्य । यतः स्वार्थकरणपटुरात्मप्रयोजन संपादनचतुरः । शक्तिः किलात्मनो नाशाय । इति निन्दा ॥