________________
३७८
शिशुपालवधे नुतिरपि-एष त्रिमूर्तिः राजसतया रजोगुणेनाश्रितः सन् ब्रह्मरूपेण जगदुदये प्रजासतें दर्शितोद्यमः । तथा सत्त्वेन गुणेन हिते रक्षायां विहितचित्तो विष्णु. रूपेण । तथा तमसा गुणेनावृतः सन् सहसैव सर्व व्यक्तं रुद्ररूपेण नाशयति । अभिहन्यते यदभिहन्ति परितपति यच्च तप्यते । नास्य भवति वचनीयमिदं चपलात्मिका प्रकृतिरेव हीदृशी॥१४॥
अभीति ॥ यदेष हरिरन्येनाभिहन्यते ताड्यते यच्चैपोऽन्यानभिहन्ति । तथा यत्परितपति बाधते । यच्च तप्यते उपश्रूयते । अतोऽस्य वचनीयता वाच्यता भवति । यतोऽस्यैवंविधैव चपलात्मिका अविनीता प्रकृतिः स्वभावः । स्वभा. वाञ्चपलस्त्वयोग्यतामहति । इति क्षेपः ॥
स्तुतिस्तु-अस्य परमात्मनो यथोक्तं वचनीयं वचनं न भवति न प्रवर्तते । 'एष हन्ति हन्यते तपति परितप्यते च' इति न वाच्यमित्यर्थः । यत ईदशी चपलात्मिकानेकरूपा प्रकृतिर्बुद्धिः । नत्वेषः । हननादिकं तमसा भवति । पुरुषश्च निर्गुण इत्यर्थः । उक्तं च–'य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥' इति । तस्मान्न बध्यतेऽसौ न मुच्यते नापि संसरति । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥' तपिः सकर्मकोऽपि । शारीरं दुःखमभिघातः । मानसं तु परितापः ॥
अतिसत्त्वयुक्त इति पुंभिरयमतिशयेन वर्ण्यते । सूक्ष्ममतिभिरथ चापगते समुपैति नाल्पमपि सत्त्वसंकरम् ॥१५॥
अतीति ॥ एष सूक्ष्ममतिभिः स्वल्पप्रज्ञैर्नृभिर्महता सत्त्वेन धैर्येण युक्त इति सुष्ठु वर्ण्यते । अथानन्तरं चापगते प्राप्तचापे गृहीतधनुषि कस्मिंश्चित्स्वल्पमपि सत्वसंकरं पौरुषलेशं न भजति पलायनादिना । परेणोत्तब्धस्यास्य सत्वलेशोऽपि न लभ्यत इत्यर्थः । तस्मादयुक्तं च तैर्वर्ण्यत इति भावः । इति निन्दा ॥
स्तुतिस्तु-चापं गतश्चापगतः । यद्वा चापस्य गतं प्राप्तिश्चापगतं तस्मिंश्चा. पगते। धनुःसंनिधाने सतीत्यर्थः । अथ च सबीजनिर्बीजसमाधौ पुंभिर्योगिभिः सत्त्वेन गुणेन युक्तइति कथ्यते । सूक्ष्ममतिभिः कुशाग्रीयबुद्धिमिर्बहुदृश्वभिरपगते ज्ञाते सति निर्बीजसमाधौ स्वल्पमपि सत्यसंकर नोपैति । निर्गुणो हि पुरुषः । अथ चेति विस्मये ॥ प्रलयं परस्य महतोऽपि सततमिह निःसुखे गुणाः । यान्ति जगदपि सदोषमदः स्वरुचैव पश्यति गुणान्द्विपनयम् १६
प्रलयमिति ॥ परस्यान्यस्य महतोऽपि मुख्यस्यापीह कृष्णे गुणाः सौन्दर्या. दयो नियतमवश्यं प्रलयं यान्ति नश्यन्ति । नैष कस्यचिद्गुणानङ्गीकरोतीत्यर्थः । अविद्यमानं सुखमस्मादिति निःसुखः । गुणापहाराद्धि कुतः सुखम् । यद्वा अविद्यमानं सुखममादिति निःसुखः । अत एव ते नाशमन यान्ति । अतश्वायं गुणा