________________
पञ्चदशः सर्गः I
सुकृतोऽपि सेवकजनस्य बहुदिवसखिन्नचेतसः । सर्वजनविहितनिर्विदयं सकृदेव दर्शनमुपैति कस्यचित् ॥ ११ ॥
३७७
सुकृत इति ॥ भयं सुकृतोऽप्युपकारकस्याप्याश्रितजनस्य सकृदेकवारमेव दर्शनमुपैति दर्शनं ददाति कस्यचित्, न सर्वस्य । किंभूतः - सर्वजन विहित निविंद सर्वजनस्य विहिता निर्वित्खेदो येन । कीदृशस्य जनस्य - बहुदिवस खिन्नचेतसः बहुभिर्दिवसैः खिन्नं चेतो यस्य तस्य । चिरकालमेवोद्विग्नचित्तस्येत्यर्थः । इति निन्दा ||
1
स्तुतिस्तु — अयं कस्यचिदेव सेवकजनस्य भक्तलोकस्य सकृदेव दर्शनमुपैति । नहि क्षेत्रज्ञः सर्वस्य सदैव । कीदृशस्य । सुकृतः पुण्यकृतः । तथा बहुभिर्दिवसैर्भूचसा कालेन खिन्नचेतसः क्षुण्णमनसः । दीर्घेण योगेन श्रान्तचेतस इत्यर्थः नह्यनभ्यासगम्य ईश्वरः । अत एव सर्वजनविहित निर्वेदः । श्रेयस्यपि चिरकालमभ्यसनो निर्विद्यते । यदि वा सर्वेषु जनेषु विगतौ हितनिर्वेदौ यस्य स सर्वजनविहितनिर्विद् | नास्य कश्चित्प्रियो न च द्वेष्य इत्यर्थः । यदि वा सर्वे जना यत्र स सर्वजनः, विगते हितनिर्विदौ सुखदुःखे यस्य स विहित निर्वित् । ततः कर्मधारयः । सर्वजनस्य विहिता निर्वित् निर्वाणो येनेत्यन्ये । आश्रितजनं संसारान्मोचयतीत्यर्थः । शोभनं करोति सुकृदुपकारी, पुण्यकृच्च । निर्विन्निर्वेदो निर्वाणं च ॥ स्वजने सखिष्वनुगतेषु नियतमनुरागवत्स्वपि । स्नेहममृदुहृदयः क्षपयन्निरपेक्ष एष समुपैति निर्वृतिम् ॥ १२ ॥
स्वजन इति ॥ एष बन्धुमित्राश्रितेषु प्रीतिं नाशयन्निर्वृतिं सदा समुपैति सुखं प्राप्नोति । सर्वत्रैव वैरायमाणः सुखायत इत्यर्थः । कदाचिदेते विरक्ताः स्युरित्याह- अनुरक्तेष्विति । कथं तर्हि निःस्नेह इत्याह-यतो हृदयेऽमृदुहृदयः क्रूरचितः । तथा निरपेक्षो निर्विवेकः । इति निन्दा ॥
स्तुतिस्तु - एष स्वजनादिषु अनुरागवत्स्वपि स्नेहं क्षपयंस्तृष्णां तनूकुर्वन्निर्वृतिं समुपैति निर्वाणं याति । तृष्णाक्षयात्किल मुक्तिः । अमृदुहृदयः नार्द्रभावो वीतरागत्वात् । यदि वा अमृदु दुर्बोधं हृदयं स्वरूपं यस्य । निरपेक्षो निःसङ्गः पिर्धापठितोऽपि क्रियावाचित्वात्खचिमिलोकस्यार्घत्वादिक (?) वद्धातुरेव ॥ क्षणमेष राजसतयैव जगदुदयदर्शितोद्यतिः । सच्चहितकृतमतिः सहसा तमसा विनाशयति सर्वमावृतः ॥ १३॥
क्षणमिति ॥ एप राजसतया चापलेन क्षणं जगदुदये लोकहिते दर्शितो - यति दर्शितोद्यम इति क्रिया । राजसिकत्वेन क्षणमुपकुरुते इत्यर्थः । तमसा तु मोहेन पुनरनन्तरमावृतत्वादहित कृतमतिरुपद्भव विहितबुद्धिः सन् सहसैव सर्वं सत् सुकृतं विनाशयति । यदेव पूर्वमुपकृतं तदेव मोहयन्नाशयतीत्यर्थः । सत् सुकृतम् । तु भिन्नक्रमः । इति गर्दा ॥