________________
३७६
शिशुपालवधे मासि प्रधानम् । तथा दुःखं जननमरणादिकं सदा प्राप्तस्य । सर्वं हि बुद्धिरनुभवति न पुरुषः ॥ खयमक्रियः कुटिलमेष तृणमपि विधातुमक्षमः । भोक्तुमविरतमलजतया फलमीहते परकृतस्य कर्मणः ॥ ८ ॥ स्वयमिति ॥ एष देवः परकृतस्यान्यनिष्पादितस्य कर्मणः क्रियायाः फलं भोक्तुमीहते वाञ्छति । कथम् । अलजतया नित्रपत्वेन । कदाचिदैश्वर्यादेवं स्यादित्याह-आत्मना तृणमपि कुटिलं कर्तुमक्षमोऽसमर्थोऽनीशः । यतोऽक्रियोऽलसः । अशक्त्या स्वयं निष्क्रियः पराधीनोऽन्यदत्तेन पिण्डेन जीवति । इति निन्दा ॥
अथ च वाक्यार्थपर्यालोचनया स्तुतिः-एष भगवान्परजनितस्य बुद्धिकृ. तस्य कर्मणः शुभाशुभस्य फलं सुखदुःखात्मकं भोक्तुमीहते। आत्मा हि फल. भागीति सांख्याः । कीडगेष इति पुरुषस्य स्वरूपमाह-स्वयमक्रियो निष्कर्मा । तथा तृणमपि कुटिलं कर्तुमनीशः । निर्लजत्वं निर्गुणत्वात् ॥ य इमं समाश्रयति कश्चिदुदयविपदोनिराकुलम् । तस्य भवति जगतीह कुतः पुनरुद्भवो विकरणत्वमेयुषः ॥९॥
य इति ॥ यः कश्चिन्मूर्ख इमं कृष्णं समाश्रयति सेवते तस्यास्मिन्संसारे कुतः पुनरुद्भवो भवति । नैव समुत्थानं भवतीत्यर्थः । य एनमुदये विपदि च निराकुलं निश्चिन्तमाश्रितस्य । यदि संपत्ततोऽस्य नैव सुखम् , यदि वा विप. ततो नैव दुःखमित्यर्थः । तस्य कीदृशस्य । विकारणत्वं मृतिमेयुषः प्राप्तस्य । एतदाश्रयणात्स मृत एव । सामग्रीवैकल्यं वा विकरणस्वम् इति निन्दा ॥
स्तुतिश्च-यः कश्चिद्योगी एनं परमात्मानं सेवते तस्य विकरणत्वमेयुषो नष्टदेहस्य पुनरिह कुत उद्भवो जन्म। मुक्त एवासावित्यर्थः। कीदृशम्-समुदयविपदोनिराकुलमव्ययम् । अक्रियत्वात् । करणानीन्द्रियाणि । एयुष इत्याङ्. पूर्वस्येणः क्वसुः । 'उपेयिवान्-' इत्यत्र हि उपसर्गनिर्देशोऽतन्त्रम् ॥
गुणवन्तमप्ययमपास्य जनमखिलमव्यवस्थितैः। याति सुचिरमतिबालतया धृतिमेक एव परिवारितो जडैः ॥१०॥
गुणवन्तमिति ॥ अयं सर्वमेव गुणिनं जनमतिबालतयातिचापलेन हित्वा अव्यवस्थितैश्चपलैजडैरज्ञैः परिवारितः सन्नजनमेक एव तिमेति प्रीयते । एतद्वज नान्यो नाकलोकमपास्य गोपमध्ये रमते । इति निन्दा ॥
स्तुतिस्तु-एष भगवान्बालतया बालरूपो भवन जलेरद्भिः परिवारित भावृतः सुचिरं धृतिमेति । उक्तं च-'संभक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत् । बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः ॥' इति । कीदृशैर्जलैः । अव्य. वस्थितैर्भरितसकलभुवनैः । किं कृत्वा धृति याति । गुणवन्तं सत्वाद्याश्रयं जनमपास्य क्षित्वा विनाश्य । सर्व जनं संहृत्य बालरूपधरो जलमध्येऽयं शेते ॥