________________
पञ्चदशः सर्गः।
३७५ व्रजति स्वतामनुचितोऽपि सविनयमुपासितो जनैः । नित्यमपरिचितचित्ततया पर एव सर्वजगतस्तथाप्ययम् ॥५॥
व्रजतीति ॥ अयमनुचितोऽप्ययोग्योऽपि स्वतां जन्मना ज्ञातित्वं याति । असमोऽपि शिशुपालस्याहं स्वजन इति वक्तीत्यर्थः । तथा जनैः सविनयं साचारं सेवितोऽपि परः शत्रुरेवायं त्रिभुवनस्य । यद्ययमकृतप्रज्ञः सेवितोऽपि शत्रुस्तत्कथं जनाः सेवन्त इत्याह-अपरिचितचित्ततया चलचित्ततया अविश्वा. सहृदयत्वेन सर्वजगतः परमेवेति योज्यम् । इति निन्दा ॥
स्तुतिश्च-असौ स्वतामात्मत्वं व्रजति प्रतिपद्यते । क्षेत्रज्ञोऽयमित्यर्थः । लोकप्रसिद्ध्यात्र स्वशब्देनानात्मोक्तः । आत्मात्मीयज्ञातिधनवचनः स्वशब्दः । सांख्या ह्यात्मानं स्वामिशब्दवाच्यमाहः । कीदृशोऽयम्-अनुचितोऽप्यनभ्यस्तोऽप्यज्ञेयोऽपि सविनयमेकाग्रेण योगिभिरुपासितश्चिन्तितः । तस्मात्सर्वस्मा. जगतो व्यक्तात्परो विलक्षणः । कुतः। अपरिचितसंगतं चित्तं मनो बुद्धिर्वा यस्य सोऽपरिचितचित्तस्तद्भावस्तत्ता तया । अन्यो ह्यात्मा, अन्या च बुद्धिः, अन्यच्च चित्तम् , जगच्चेदं प्राकृतो भागः ॥ उपकारिणं निरुपकारमनरिमप्रियं प्रियम् । साधुमितरमबुधं बुधमित्यविशेषतः सततमेष पश्यति ॥६॥
उपकारिणमिति ॥ अयमुपकारिणमपकारिणं चाविशेषेण पश्यति । अपकारिणमिवोपकारकमप्यसौ स्वया दृष्ट्या पश्यतीत्यर्थः। इत्यकृतज्ञत्वकथनम् । एवमन्यत्र । तथा अरिंशत्रु वनरिं मित्रम्। नायं नियमो यन्मित्रमुपकार्येव भवति। अनुपकारकश्च शत्रुरेव संभवति । अप्रियं द्वेष्यं प्रियं मनोज्ञम् । साधुमार्यमितरं खलम् । अबुधं मूर्ख बुधं प्रण्डितम् । इति दुरुक्तनिर्देशः । एषा निन्दा ॥
स्तुतौ तु-निर्गुणत्वात्पुरुषस्य समदृष्टित्वम् ॥ उपकारकस्य दवतोऽपि बहुगुणतया प्रधानताम् । दुःखमयमनिशमाप्तवतो न परस्य किंचिदुपकर्तुमिच्छति ॥ ७ ॥
उपकारकस्येति ॥ अयं परस्यान्यस्य किंचिदपि मनागपि नोपकर्तुमिच्छति । उपकारकरणे बुद्धिरेवास्य न भवतीत्यर्थः । कदाचित्परोऽनुपकारी स्यादित्याहउपकारकस्यापि अत एवैतदर्थमनिशं दुःखं क्लेशमाप्तवतःप्राप्तस्य । कदाचिदमुख्यः परः स्यात्तदप्यप्रत्युपकारित्वेन तथा लज्जादोषो भवेदित्याह-बहुगुणतया श्रुत. शौर्यादिसद्भावेन प्रधानतां मुख्यत्वं दधतो बिभ्रतः । तदेतेन पूर्वोक्ताओं दृढीकृतः । इति निन्दा ॥ ___ स्तुतिस्तु-अयं परस्य बुद्धितत्त्वस्य प्रधानसंज्ञकस्य किंचिदपि नोपचिकी. पति । द्रष्टा हि पुरुषो न सक्रियः । कीदृशस्य । पुरुषप्रवृत्तिद्वारेणोपकारकस्य, तथा बहवस्त्रयोऽपि ये गुणास्तभावेन प्रधानतां प्रकृतित्वं दधतः। सत्त्वरजस्त