________________
३९२
शिशुपालवधे अवकर्ण्य अनादरेण श्रुत्वा सहसा संसदः सदसो निरियाय निर्ययौ । अमर्षादेवेति भावः ॥ गृहमागताय कृपया च कथमपि निसर्गदक्षिणाः । क्षान्तिमहितमनसो जननीस्वसुरात्मजाय चुकुपुर्न पाण्डवाः ६८
गृहमिति ॥ निसर्गदक्षिणाः स्वभावतो दाक्षिण्यसंपन्नाः । परच्छन्दानुवतिन इत्यर्थः । 'त्रिपु वाक्कुशलावामपरच्छन्दानुवर्तिषु । दक्षिणा' इति वैजयन्ती । किंच क्षान्त्या क्षमया महितमनसः पूजितचित्ताः क्षमावन्तः पाण्डवाः । किंच गृहमागताय । अभ्यागतायेत्यर्थः । किंच जननीस्वसुर्मातृप्वसुरात्मजाय शिशुपालाय कृपया च कथमपि । असह्यापराधेऽपीत्यर्थः । न चुकुपुः न चुक्रुधुः। सद्योवध्यस्यापि तस्याभ्यागतत्वान्मातृबन्धुत्वात्स्वयं क्षान्तत्वाद्दाक्षिण्यात्कृपया च कथमपि जिघांसां न चारित्यर्थः। 'क्रुधद्रुह-' इत्यादिना संत्रदानत्वाच्चतुर्थी । अत्राभ्यागतत्वादिविशेषणानां साभिप्रायत्वादकोपहेतुत्वाच्च परिकरः काव्यलिङ्गे सति सापेक्षत्वात्संकीर्यते ॥
चलितं ततोऽनभिहतेच्छमवनिपतियज्ञभूमितः । तूर्णमथ ययुमिवानुययुर्दमघोषसूनुमवनीशसूनवः ॥ ६९ ॥
चलितमिति ॥ अथ चैद्यनिर्याणानन्तरं अवनीशसूनवस्तत्पक्षराजपुत्रास्ततस्तस्याः अवनिपतेयुधिष्ठिरस्य यज्ञभूमितो यज्ञभूमेदेवयजनात् । पञ्चम्यान्तसिल । अनभिहतेच्छमप्रतिहतमनोरथं यथा तथा चलितं प्रस्थितं दमघोषसूनुं शिशुपालम् । याति परलोकमिति ययुः परलोकप्रापकोऽश्वमेधीयोऽश्वः । 'ययुरश्वोऽश्वमेधीयः' इत्यमरः । 'यो द्वे च' इति यातेरौणादिक उक् द्वित्वं च ।तं ययुमित्र तूर्णमनुययुः । ययुरपि राजकै राजपुत्रैरन्वीयते । 'चतुःशता रक्षन्ति' इति श्रुतेः। अश्वमेधीयाश्वोपमया चैद्यस्य वध्यत्वं व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥ विशिखान्तराण्यतिपपात सपदि जवनैः स वाजिभिः । द्रष्टुमलघुरभसापतिता वनिताश्चकार न सकामचेतसः ॥ ७० ॥
विशिखान्तराणीति ॥ स चैद्यः सपदि जवनैवेंगशालिभिर्वाजिभिरश्ववि. शिखान्तराणि । रथ्यान्तराणि । 'रथ्या प्रतोली विशिखा' इत्यमरः। अतिपपात अतिचक्राम । अतएव द्रष्टुमलघुरभसेनातिवेगेनापतिता आधावन्तीर्वनिताः सकामानि साभिलाषाणि चेतांसि चित्तवृत्तयो यासां ताः सकामचेतसः । सफलमनोरथा इत्यर्थः । न चकार । अतिशीघ्रलङ्घनान्न दर्शनावकाशस्तासामासीदित्यर्थः । अतएव वाक्यार्थहेतुकं काव्यलिङ्गम् ॥
क्षणमीक्षितः पथि जनेन किमिदमिति जल्पता मिथः। प्राप्य शिविरमविशङ्किमनाः समनीनहदुतमनीकिनीमसौ ॥७१॥