________________
पञ्चदशः सर्गः।
३९१ हलायुधः । किं नाभिहत किमिति न मारयत । किंत्वभिहतेत्यर्थः । हन्तेर्वधार्थे लोट् । 'लोटो लत्' इति थस्य तादेशः । 'अनुदात्तोपदेश-' इत्यादिनानुनासिकलोपः । अहो अतिवध्योऽपि न हन्यत इत्याश्चर्ये । अत्रामर्षानुभावो वागारम्भः । 'क्रोधः कृपापराधेषु स्थिरोऽमर्ष इतीर्यते' इति ॥
अथवाध्वमेव खलु यूयमगणितमरुदणौजसः । वस्तु कियदिदमयं न मृधे मम केवलस्य मुखमीक्षितुं क्षमः ६४
अथवेति ॥ अथवा अगणितमरुद्गणौजसोऽवधीरितसुरसङ्घसत्वाः यूयमाध्व. मेव तूष्णीं तिष्टतैव खलु । आस्तेलौटि 'धि च' इति सकारलोपः । इदं कृष्णहननं कियद्वस्तु कियत्कार्यम् । अल्पमित्यर्थः । कुतः। अयं कृष्णो मृधे युद्धे । 'मृधमास्कन्दनं संख्यम्' इति युद्धपर्यायेष्वमरः । केवलस्यैकाकिनो ममैव मुख. मीक्षितुं न क्षमः युष्माकं का वातेति भावः । एतेनास्य बलगर्यो व्यज्यते । 'आत्मोत्कर्षोऽन्यधिक्कारो यल्लावण्यविभूतिभिः' इति लक्षणात् ॥ विदतुर्यमुत्तममशेषपरिषदि नदीजधर्मजौ । यातु निकपमधियुद्धमसौ वचनेन किं भवतु साध्वसाधु वा ॥६५॥
विदतुरिति ॥ किंच नदीजधर्मजो भीष्मयुधिष्ठिरौ । अशेषपरिषदि समग्रसंसदि । 'परिपत्संसत्' इति विश्वः । यं कृष्णमुत्तमं विदतुः । विदितवन्तावित्यर्थः । 'विदो लटो वा' इति तसोऽतुसादेशः । असौ कृष्णः। अधियुद्धं युद्धे । विभक्त्यर्थेऽव्ययीभावः । निकषं निकषणं यातु । परीक्ष्यतामित्यर्थः । ततः साधूत्कर्षोऽसाध्वनुत्कर्षों वा भवतु । व्यक्तमस्त्वित्यर्थः । वचनेन किम् । वृथा वाग्वीयरलमित्यर्थः । अत्रापि गर्वामर्षों व्यज्यते ॥ अचिरान्मया सह गतस्य समरमुरगारिलक्ष्मणः । तीक्ष्णविशिखमुखपीतमसृक्पततां गणैः पिबतु सार्धमुर्वरा ॥६६॥
अचिरादिति ॥ किंच मया सह समरं गतस्योरगारिलक्ष्मणो गरुडध्वजस्य संबन्धि तीक्ष्णैर्विशिखमुखैः पीतम् । मद्राणोच्छिष्टमित्यर्थः । असृक् रक्तमुर्वरा भूमिः। 'उर्वरा सर्वसस्याढ्यभूमौ स्याद्भूमिमात्रके' इति विश्वः । पततां गणैः पक्षिसमूहैः । 'पतत्पत्ररथाण्डजाः' इत्यमरः । सार्धमचिरात्पिबतु । अद्यैवाहमेनं हनिप्यामीत्यर्थः । अत्राप्यमर्ष एवेति भावः ॥ अभिधाय रूक्षमिति मा म गम इति पृथासुतेरिताम् । वाचमनुनयपरां स ततः सहसावकर्ण्य निरियाय संसदः॥६७॥
अभिधायेति ॥स चैद्य इतीत्थं रूक्षं परुषमभिधाय ततः पृथासुतैः पार्थैरीरितामुक्तामनुनयपरां मा म गमो न गच्छेति वाचम् । ‘स्मोत्तरे लङ् च' इति चकाराद्गमेराशिषि लुङि 'पुषादि-' इति च्लेरङादेशः 'न माङयोगे' इत्यडभावः ।