________________
३९०
शिशुपालवधे कर्मणि तद्यथा तथा । चलितैः भूभृतो राजानस्त एव अधिपाः पादपास्तैः सदः सभामण्डलं द्रुतः शीघ्रो वातपातो वायुप्रचारो यस्य तस्य वनस्य विभ्रम शोभाम् । 'विभ्रमः संशये भ्रान्तौ शोभायां च' इति वैजयन्ती । अभृत बभार । भृजो लुङि तङ् 'उश्च' इति सिचः कित्त्वाद्गुणाभावः 'हस्वादङ्गात्' इति सलोपः । अत्र वनविभ्रममिति सादृश्याक्षेपादसंभवद्वस्तुसंबन्धा निदर्शना नेत्रकुसुमेत्यादिरूपकोत्थापितेति संकरः ॥ हरिमप्यमंसत तृणाय कुरुपतिमजीगणन्न वा । मानतुलितभुवनत्रितयाः सरितः सुतादविभयुर्न भूभृतः ॥६१॥
हरिमिति ॥ मानतुलितभुवनत्रितया अहंकारावधीरितजगत्रयाः भूभृतश्चै. द्यपक्षा राजानः । हरिमपि तृणायामंसत तृणसमममन्यन्त । तथा लघु मेनिर इत्यनादरोक्तिः । मन्यतेः कर्तरि लुङि च्लेः सिच् । अनुदात्तत्वादिदप्रतिषेधः । 'मन्यकर्मणि-' इति चतुर्थी । कुरुपतिं च नाजीगणन् । न धर्मराजं गणयन्ति स्मेत्यर्थः । गणेौँ चङि 'ई च गणः' इत्यभ्यासस्येकारः। सरितः सुताद्भीष्मा. दपि नाविभयुर्न भीताः । विभेतेलुंडि 'लौ' इति द्विर्भावे 'सिजभ्यस्तविदिभ्यश्च' इति झेर्जुसादेशः । 'जुसि च' इति गुणः । अत्र राजसु हर्यवमानाद्यनेकक्रियायोगपद्यात्समुच्चय इति सर्वस्वकारः ॥ गुरु निःश्वसनथ विलोलसदवथुवपुर्वचोविषम् । कीर्णदशनकिरणाग्निकणः फणवानिवैष विससर्ज चेदिपः ॥६२॥
गुर्विति ॥ अथैष चेदिपः फणवान्फणीव। गुर्वधिकं निःश्वसन्फूत्कुर्वन् विलोलं सदवथु ससंतापम् । 'संतापो दवथुः' इत्यनेकार्थादिति सजनः । तद्वपुर्यस्य स विलोलसदवथुवपुः । 'द्वितोऽथुच्' । कीर्णा विक्षिप्तः दशनकिरणा अग्निकणा इव यस्य स तथा सन् वचो विषमिव तद्वचोविषं विससर्ज । विषप्रायं वच उजगारे. त्यर्थः । अतः फणवानिवेति व्यस्तोपमालिङ्गात्सर्वनोपमितसमासाश्रयणम् ॥
अथैतद्वचोविषमेव चतुर्भिराहकिमहो नृपाः समममीभिरुपपतिसुतैर्न पञ्चभिः । वध्यमभिहत भुजिष्यममुं सह चानया स्थविरराजकन्यया ॥६॥
किमित्यादि ॥ हे नृपाः, अमीभिः पञ्चभिरुपपतिसुतैः समं जारजैः सह । पाण्डवानां क्षेत्रजवादित्थं प्रलापः । अनया स्थविरराजकन्यया क्षत्रियाङ्गनया च सह । 'कन्या कुमारिकानार्योः' इति विश्वः । भीष्मस्योर्ध्वरेतस्कत्वेन निन्दा । वध्यं वधार्हम् । अराज्ञो राजाहणग्रहणापराधादिति भावः । अराजत्वं व्यनक्ति । अमुं भुजिष्यं किंकरम् । कंसपशुपालनादिति भावः । 'भुजिष्यः किंकरो मतः' इति
१ 'अहंकाराद्धारित' इत्यपि पाउः.