________________
३८९
पञ्चदशः सर्गः। विवृतोरुबाहुपरिघेण सरभसपदं निधित्सता । हन्तुमखिलनृपतीन्वसुना वसने विलम्बिनि निजे विचस्खले ५७
विवृतेति ॥ अखिलनृपतीन्हन्तुं विवृतः प्रसारित उरुबाहुरेव परिघ आयुधविशेषो येन तेन । 'परिघः प्रतिघातेऽस्त्री' इति हैमः । सरभसं ससत्वरं यत्पदं तन्निधित्सता निधातुमिच्छता। दधातेः सन्नन्ताल्लटः शत्रादेशः। वसुना तन्नाम्ना राज्ञा विलम्बिनि उत्पातवेगाद्विखंसिनि निजे वसने स्वाम्बरे विचस्खले स्खलि. तम् । तद्ध्यस्य दुनिमित्तमिति भावः । भावे लिट् । अत्र वस्त्रसंसनस्य विशेषणगत्या स्खलनहेतुत्वात्काव्यलिङ्गं तद्वाहुपरिघेति रूपकेण संसृज्यते ॥ इति तत्तदा विकृतरूपमभजत्तदविभिन्नचेतसम् । मारवलमिव भयंकरता हरिबोधिसत्त्वमभि राजमण्डलम् ॥५८॥
इतीति ॥ इतीत्थं तदा तस्मिन्काले विकृतरूपं रोषभीषणाकारं तद्राजमण्डलं मारबलमिव मदनसैन्यमिव । 'मदनो मन्मथो मारः' इत्यमरः । अविभिन्नचेतसमविकृतचित्तं बोधिसत्वो बुद्धः । 'बुद्धस्तु श्रीघनः शास्ता बोधिसत्त्वो विनायकः' इति वैजयन्ती । स हरिरिवेत्युपमितसमासः। तं हरिबोधिसत्त्वमभि । तत्समक्षमित्यर्थः । 'अभिरभागे' इत्यभेः कर्मप्रवचनीयत्वाचद्योगे द्वितीया। भयं करोतीति भयंकरः । 'मेघर्तिभयेपु कृत्रः' इति खच्प्रत्यये मुमागमः । तस्य भावस्तत्तामभजत् । उपमालंकारः । तेन भगवतो बुद्धस्य समाधिभङ्गाय प्रवृत्तं मारबलं यथा तेन भग्नं तथा राजमण्डलमपि हरिणा भज्यत इति वस्तु व्यज्यते ॥ रभसादुदस्थुरथ युद्धमनुचितभियोऽभिलाषुकाः।
सान्द्रमुकुटकिरणोच्छलितस्फटिकांशवः सदसि मेदिनीभृतः ५९ - रभसादिति ॥ अथानन्तरमनुचितभियोऽनभ्यस्तसाध्वसाः । 'अभ्यस्त. ऽप्युचितम्' इति यादवः । अतएव युद्धमभिलापुका युद्धार्थिनः । 'लषपत-' इत्यादिना उकञ्प्रत्यये 'न लोका-' इत्यादिना षष्टीप्रतिषेधः । सदसि मेदिनीभृतः सदसि स्थिताश्चैद्यपक्षीया राजानः । सान्नैर्मुकुटकिरणैरुच्छलिताः स्फटिकांशवः सभाभित्तिस्फटिकमणिमयूखा यैस्ते तथोक्ताः सन्तो रभसाद्वेगादुद. स्धुरुत्थिताः । 'उदोऽनूर्ध्वकर्मणि' इत्यस्य प्रत्युदाहरणमेतत् । अत्र युद्धाभिलाषुकस्य विशेषणगत्योत्थानहेतुत्वात्काव्यलिङ्गभेदः ॥ स्फुरमाणनेत्रकुसुमोष्ठदलमभृत भूभृदचिपैः।। धूतपृथुभुजलतं चलितैर्दुतवातपातवनविभ्रमं सदः ॥ ६० ॥ स्फुरमाणेति ॥ स्फुरमाणानि नेत्राण्येव कुसुमान्योष्ठा एव दलानि च यस्मिकर्मणि तद्यथा तथा धूताः कम्पिताः पृथवो भुजा एव लताः शाखा यस्मि१ 'निपित्सता' इति पाठः.