________________
३८८
शिशुपालवधे
प्रतिषः कुतोऽपि समुपेत्य नरपतिगणं समाश्रयत् । जामिहरणजनितानुशयः समुदाचचार निज एव रुक्मिणः॥५३॥
प्रतिघ इति ॥ प्रतिघः कोपः। 'कोपक्रोधामर्षरोपप्रतिघा-' इत्यमरः । कुतोऽपि समुपेत्यागत्य नरपतिगणं राजमण्डलं समाश्रयत्समाविशत् । रुक्मिणस्तु जामिः वसा । 'जामिः स्वसृकुलस्त्रियोः' इत्यमरः । तस्या रुक्मिण्या हरणेन जनितोऽनुशयो हा कष्टमापन्नं कदा निर्यातयामीत्यनुतापो यस्मिन्सः । 'अथानुशयो दीर्घद्वेषानुतापयोः' इत्यमरः । निजो नित्य एव प्रतिघः । 'निजमात्मीयनित्ययोः' इति विश्वः । समुदाचचार समुद्दिदीपे । भीष्मवाक्यमन्येषां कोपोत्पादकमासीत् , रुक्मिणस्तु प्रागेव विरूपकोपस्योद्दीपकमासीदित्यर्थः । अत्रानुशयस्य विशेषणगत्या कोपोद्दीपनहेतुत्वात्काव्यलिङ्गभेदः ॥ चरणेन हन्ति सुबलः स शिथिलितमहीध्रवन्धनाम् । तीरतरलजलराशिजलामवभुग्नभोगिफणमण्डलां भुवम् ॥ ५४॥
चरणेनेति ॥ सुबलो नाम राजा महीं धारयन्तीति महीध्राः पर्वताः । 'कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम्' इति कप्रत्ययः । शिथिलितानि विश्लेषितानि महीध्राणां बन्धनानि संधयो यस्यास्ताम् । तीरेण तरलानि भूकम्पाञ्चलितानि जलराशेरम्बुधेर्जलानि यस्यास्ताम् । अवभुग्नं कुटिलम् । अतिभारादित्यर्थः । भोगिनः फणानां मण्डलं फणासमूहो यस्यास्तां भुवं चरणेन हन्ति स जघान । 'लट् से' इति भूतार्थे लट् । अत्र पादाघाताद्भुवः कम्पासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः ॥ कुपितेषु राजसु तथापि रथचरणपाणिपूजया । चित्तकलितकलहागमनो मुदमाहुकिः सुहृदिवाधिकां दधौ ॥५५॥
कुपितेष्विति ॥ रथचरणपाणेश्चक्रपाणेः पूजया राजसु तथा कुपितेष्वपि चित्ते कलितं निश्चितं कलहागमनं युद्धलाभो येन स आहुकिः आहुकिर्नाम राजा शोभनं हृदयं यस्य स सुहृन्मित्रमिव । कृष्णपक्षपातीवेत्यर्थः । 'सुहृदुईदौ मित्रा. मित्रयोः' इति निपातः । अधिकां मुदं दधौ संतोषं धृतवान् । सुदुःसहोऽपि कृष्णोत्कर्षः कलहकण्डूलबाहोराहुकेर्मोदहेतुरासीदित्यर्थः । उपमालंकारः ॥ गुरुकोपरुद्धपदमापदसितयवनस्य रौद्रताम् । व्यात्तमशितुमिव सर्वजगद्विकरालमास्यकुहरं विवक्षतः ॥५६॥
गुर्विति ॥ विवक्षतः किमपि वक्तुमिच्छतः । वचः सन्नन्ताल्लटः शत्रादेशः । असितयवनस्य कालयवनस्य राज्ञः संबन्धि सर्वजगदशितुमत्तुमिव व्यात्तं विवृतम् । अतएव विकरालमतिविकृतम् । 'करालो दन्तुरे तुङ्गे विशाले विकृतेऽपि च' इति वैजयन्ती । गुरुणा कोपेन रुद्धपदं प्रतिबद्धवचनमास्यकुहरं वक्रविवरं रौद्रतां भयंकरतामापत् । अनाशितुमिवेति फलोत्प्रेक्षा व्यादानक्रियानिमित्ता ॥