________________
विंशः सर्गः।
अथ ससितवीक्षितादवज्ञाचलितैकोनमितश्रु माधवेन । निजकेतुशिरःश्रितः सुपर्णादुदपप्तन्नयुतानि पक्षिराजाम् ॥५२॥
अथेति ॥ अथ नागपाशबन्धनानन्तरं माधवेन कृष्णेनावज्ञया अकिंचिकरत्वादनादरेण चलिता प्रेरिता एका उन्नमिता उत्क्षिप्ता च भूर्यस्मिन्कर्मणि तत्तथा । 'गोखियोरुपसर्जनस्य' इति ह्रस्वत्वम् । सस्मितं चैद्यचापल्यदर्शनात्समन्दहासं वीक्षितात् निजकेतुशिरःश्रितः निजध्वजाग्रस्थितान् । श्रयतेः विप् । सुपर्णात्पक्षिणां राजाः राजानः तेषां पक्षिराजां गरुत्मताम् । 'राजा राट् पार्थिवः' इत्यमरः । 'अन्येभ्योऽपि दृश्यते' इति क्विप् । अयुतानि अयुतसंख्या उदपप्तनुत्पेतुः । 'पुषादि-' इति लुङि च्लेरङादेशः । 'पतः पुम्' इति पुमागमः । 'उदभूवन्' इति पाठे 'भुवो वुक्' इति वुगागमः । माधवस्य सुपर्णवीक्षणावस्थोचितभ्रूविक्षेपादिचेष्टाविवरणात्स्वभावोक्तिः । तदुक्तं दण्डिना-नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती । स्वभावोक्तिश्च जातिश्च' इति 'जातिक्रियागुणद्रव्यस्वभावाख्यानमीदृशम्' इति च ॥ द्रुतहेमरुचः खगाः खगेन्द्रादलघुदीरितनादमुत्पतन्तः । क्षणमैक्षिषतोचकैश्चमूभिर्बलतः सप्तरुचेरिव स्फुलिङ्गाः॥५३॥
द्रुतेति ॥ द्रुतहेमरुचः प्रतप्तकाञ्चनभास इत्युपमा। अलघूच्चैरुदीरितनादं उच्चरितघोषं यथा तथा खगेन्द्राद्गरुत्मतः उत्पतन्तः उद्भवन्तः खगाः सुपर्णा ज्वलतः प्रज्वलतः सप्तरुचेः सप्तार्चिषोऽनेरुच्चकैरूवं प्रसृताः स्फुलिङ्गा इव चमूभिः क्षणमैक्षिषत ईक्षिताः । ईक्षतेः कर्मणि लुङ् । अत्रोपमयोः संकरः ॥ उपमानमलाभि लोलपक्षक्षणविक्षिप्तमहाम्बुवाहमत्स्यैः । गगनार्णवमन्तरा सुमेरोः कुलजानां गरुडैरिलाधराणाम् ॥५४॥
उपमानमिति ॥ गगनमर्णव इव गगनार्णवस्तमन्तरा । तस्य मध्ये इत्यर्थः । 'अन्तरान्तरेण युक्ते' इति द्वितीया । अवार्णवस्यैकत्वेऽपि तदेकदेशापेक्षया भेदत्वेन मध्यमप्रतियोगित्वसंभवाग्न द्वितीयानुपपत्तिः । लोलैः पक्षैः क्षणाद्विक्षिप्ता महाम्बुवाहा मत्स्या इव यैस्तैर्गरुडैर्गरुत्मभिः सुमेरोः कुलजानां हेमाद्रिवं. श्यानां अन्येषामहिरण्मयतया गरुडसाम्यासंभवादित्यर्थः । इलाधराणां भूधराणाम् । अर्णवान्तश्चराणामित्यर्थः । 'गौरिला कुम्भिनी क्षमा' इति कोषः। उपमानं सादृश्यमलाभि अलम्भि । लभेः कर्मणि लुङि 'विभाषा चिण्णमुलोः' इति विकल्पानुमभावः । अत्रेलाधराणामुपमानमिति व्यस्तोपमाया अन्याभ्यां समासगताभ्यामङ्गाङ्गिभावेन संकरः ॥ पततां परितः परिस्फुरद्भिः परिपिङ्गीकृतदिसुखमयूखैः । सुतरामभवदुरीक्ष्यबिम्बस्तपनस्तत्किरणैरिवात्मदर्शः॥५५॥