________________
५१२
शिशुपालवधे पृथ्विति ॥ भुजंगमाङ्गमध्ये पृथोर्वारिधिवीचिमण्डलस्यान्तर्मध्ये विलसन्तः केना इव वितानपाण्डुरद्युतीनि शुभ्रवर्णानीत्युपमा । ध्वजांशुकानि नवनिर्मोकरुचिं नवकञ्जुकशोभां दधति स्म । 'समौ कञ्चकनिर्मोको' इत्यमरः । निर्मोकरुचिमित्यत्रान्यधर्मस्यान्यत्रासंबन्धेन निर्मोकस्येवेति सादृश्याक्षेपादसंभवद्वस्तुसंबन्धनिदर्शना फेनपाण्डुरोपमयाङ्गेन संकीर्यते ॥ कृतमण्डलबन्धमुल्लसद्भिः शिरसि प्रत्युरसं विलम्बमानैः। व्यरुचजनता भुजंगभोगैदलितेन्दीवरमालभारिणीव ॥४८॥
कृतेति ॥ जनता जनसमूहः । 'ग्रामजन-' इत्यादिना सामूहिकस्तल्प्रत्ययः। शिरसि कृतो मण्डलबन्धो वलयीभावो यस्मिन्कर्मणि तत्तथा उल्लसद्भिः प्रत्यु. रसं उरसि उरसि । 'प्रतेरुरसः सप्तमीस्थात्' इति समासान्तोऽच्प्रत्ययः । विलम्बमानैर्विशेषेण लम्बमानैः भुजंगभोगैरहिकायैः दलितेन्दीवरमालभारिणीव विकसितनीलोत्पलमालभारिणीवेत्प्रेयुत्क्षा । व्यरुचब्यरोचिष्ट । 'द्युन्यो लुङि' इति विकल्पात्परस्मैपदम् ॥ परिवेष्टितमूर्तयश्च मूलादुरगैराशिरसः सरत्नपुष्पैः । दधुरायतवल्लिवेष्टितानामुपमानं मनुजा महीरुहाणाम् ॥ ४९ ॥
परिवेष्टितेति ॥ किंचेति चार्थः । मूलात् । पादमारभ्येत्यर्थः । ल्यब्लोपे पञ्चमी । आशिरसः शिरोन्तम् । अभिविधावाङिति विकल्पादसमासः । रनरेव पुष्पैः सह वर्तन्ते इति सरत्नपुष्पैः । तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । उरगैः परिवेष्टितमूर्तयो वेष्टिताङ्गाः मनुजा आयताभिर्वल्लीभिलताभिर्वेष्टितानां महीरुहाणामुपमानं सादृश्यं दधुरित्युपमा ॥ बहुलाञ्जनपङ्कपट्टनीलद्युतयो देहमितस्ततः श्रयन्तः । दधिरे फणिनस्तुरंगमेषु स्फुटपल्याणनिबद्धवर्धलीलाम् ॥५०॥
बहुलेति ॥ बहुलाञ्जनस्य सान्द्रकजलस्य पङ्कपट्टः पङ्कघनस्तद्वन्नीलद्युतयः श्यामभासः । देहं शरीरमितस्ततः पुच्छपा दिस्थानेषु श्रयन्तो भजन्तः फणिनस्तुरंगमेषु स्फुटान्युज्वलानि यानि पल्याणेषु पल्ययनेषु निबद्धानि वर्धाणि वरत्राः । 'वधं त्रपुवरत्रयोः' इति विश्वः । तेषां लीलां शोभा दधिरे दधुः । वर्धलीलामित्यत्रासंभवद्वस्तुसंबन्धा निदर्शनोक्तलक्षणा ॥ प्रसृतं रभसादयोऽभिनीला प्रतिपादं परितोऽभिवेष्टयन्ती । तनुरायतिशालिनी महाहेर्गजमन्दुरिव निश्चलं चकार ॥ ५१ ॥
प्रसृतमिति ॥ अयसा अयोवत् अभिनीला पादेषु प्रतिपादम् । विभक्त्यर्थेऽव्ययीभावः । अभिवेष्टयन्ती आयत्या आयतेन दीर्पण शालते या सा आयतिशालिनी महाहेर्महोरगस्य तनुर्वपुरन्दूः शृङ्खलेव। 'अन्दूस्तु शृङ्खलायां स्त्री' इति वैजयन्ती। रभसात्प्रसृतं प्रचरन्तं गजं निश्चलं चकार । उपमा ॥