________________
७६
शिशुपालवधे
तीति तत्तादृशमुडुचक्रं नक्षत्रमण्डलं यस्य सः सुमेरोर्वप्रः सानुः । 'सानुप्राकारयोर्वप्रम्' इत्युभयत्रापि सजनः । अहन्यहनीत्यन्वहम् । 'अव्ययं विभक्ति-' इत्यादिना यथार्थेऽव्ययीभावः । 'अनश्च' 'नपुंसकादन्यतरस्याम्' इति समासान्तोऽच् । अन्वकार्यनुकृतः । तत्साम्यं प्रापित इत्यर्थः । मेरोरुपमानाद्वग्रस्य तत्तुल्यमौन्नत्यं व्यज्यते ॥
वणिक्पथे पूगकृतानि यत्र भ्रमागतैरम्बुभिरम्बुराशिः। लोलैरलोलद्युतिभाजि मुष्णरत्नानि रत्नाकरतामवाप ॥ ३८ ॥ वणिक्पथ इति ॥ यत्र यस्यां पुरि वणिजां पथि वणिक्पथे आपणे अपुगाः पूगाः संपद्यमानानि कृतानि पूगकृतानि पुञ्जीकृतानि । 'श्रेण्यादयः कृतादिभिः' इति समासः। श्रेण्यादिषु व्यर्थवचन मिति व्यर्थता । अलोलद्युतिभाञ्जि स्थिरप्रभावन्ति रत्नानि लोलैश्चलैः । अत एव भ्रमागतैर्जलनिर्गममार्गादागतः । 'भ्रमाश्च जलनिर्गमाः' इत्यमरः । अम्बुभिर्मुष्णन्नपहरनम्बुराशिरर्णवः । जलमात्रसारोऽपीति भावः । रत्नाकरतामवाप प्राप । न तु प्रागिति भावः । अम्बुराशेः प्राग्रनसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः । तथा च पुर्याः समुद्रातिशायिनी रत्नसमृद्धिर्वस्तु व्यज्यते ॥
अम्भश्च्युतः कोमलरत्नराशीनपांनिधिः फेनपिनद्धभासः। यत्रातपे दातुमिवाधितल्पं विस्तारयामास तरङ्गहस्तैः ॥ ३९ ॥
अम्भ इति ॥ यत्र पुरि अपांनिधिः समुद्रः । अम्भश्च्योतन्ति क्षरन्तीत्यम्भश्युतो जलस्राविणः अत एव फेनैः पिनद्धभासः पिहितकान्तीन् । अपिपूर्वान्नह्यतेः कर्मणि क्तः । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यपेरकारलोपः । कोमलानुत्कृष्टान्रत्नराशीनातपे दातुं शोषणार्थं निधातुमिवेति फलोत्प्रेक्षा । तल्पेष्वट्टेषु अधितल्पम् । 'तल्पं शय्यादृदारेषु' इत्यमरः । विभक्त्यर्थेऽव्ययी. भावः । तरङ्गैरेव हस्तैर्विस्तारयामास प्रसारितवान् । अत्रातपदानस्य तरङ्गहस्तसाध्यत्वेनोत्प्रेक्षारूपकयोः संकरः ॥
यच्छालमुत्तुङ्गतया विजेतुं दूरादुदस्थीयत सागरस्य । महोर्मिभिर्व्याहतवाञ्छिताथैीडादिवाभ्याशगतैर्विलिल्ये ४०॥ यच्छालमिति ॥ सागरस्य महोर्मिभिः कर्तृभिर्यच्छालं यस्याः प्राकारम् । 'प्राकारो वरणः शालः' इत्यमरः । उत्तुङ्गतया औन्नत्यगुणेन । जेतुमिवेत्यर्थः । फलोत्प्रेक्षेयं व्यञ्जकाप्रयोगाद्गम्या । दूरादुदस्थीयतोत्थितम् । भावे लङ् । अ. भ्याशगतैः समीपगतैः । 'समीपे निकटाभ्याससंनिकृष्टसनीडवत् । सदेशाभ्याशसविध-'इत्यमरः। व्याहतो वाञ्छितार्थः शालविजयरूपो येषां तैः। विजयाक्ष मैरित्यर्थः । अत एव ब्रीडादिवेति हेतूत्प्रेक्षा । ऊर्मिभिर्विलिल्ये विलीनम् । लीयते. भर्भावे लिद । अत्र शक्तस्याप्यविजिगीषो/डानुदयात्सापेक्षत्वेनोत्प्रेक्षयोः संकरः ॥