________________
२६८
शिशुपालवधे मितरुचिरिव सद्यः साभ्यसूयं प्रभेति __ स्फुरति विशदमेषा पूर्वकाष्टाङ्गनायाः॥ १२ ॥ उदयमिति ॥ य इन्दुः मे मम संगताबुड़ितदीप्तिः प्रवृद्धद्युतिः सन् उदयमुदयाद्रिम् , अभ्युदयं च याति स इन्दुरेपोऽपरां पश्चिमाशां, पराङ्गनां च गत्वा पतत्यस्तमेति, पातित्यं च गच्छति । न वरम् । अनहमित्यर्थः । इति सद्यः साभ्यसूयं यथा तथा पूर्वकाष्ठा प्राची सैवाङ्गना, पूर्वनायिका च गम्यते । तस्याः मितरुचिर्मन्दहासकान्तिरिवैषा प्रभा विशदं निर्मलं स्फुरति प्रकाशते । प्राच्यामीषद्विशदा प्रभा प्रादुरभूदित्यर्थः । अत्र प्राचीगतप्राभातिकप्रभायामिन्दोः पराङ्गनासङ्गपातित्यनिमित्ता चेतनधर्मस्मितरुचिस्वोत्प्रेक्षा पूर्वकाष्टाङ्गनाया इति रूढिव्यूढेत्यनयोरङ्गाङ्गिभावेन संकरः ॥ चिररतिपरिखेदप्राप्तनिद्रामुखानां
चरममपि शयित्वा पूर्वमेव प्रबुद्धाः। अपरिचलितगात्राः कुर्वते न प्रियाणा
मशिथिलभुजचक्राश्लेषभेदं तरुण्यः ॥ १३ ॥ चिरेति ॥ चरममपि शयित्वा पश्चात्सुप्त्वापि पूर्वमेव प्रबुद्धाः । 'सुप्ते पश्चाच या शेते पूर्वमेव प्रबुध्यते । नान्यं कामयते चित्ते सा स्त्री या पतिव्रतः ॥' इति स्मरणादिति भावः । तथापि तरुण्योऽपरिचलितगात्रा अस्पन्दवपुष्काः सत्यः चिररतिपरिखेदेन प्राप्तनिद्रासुखानां प्रियाणामशिथिलो गाढो यो भुजचक्रेण परस्परभुजवलयेनाश्लेषस्तस्य भेदं विश्लेषं विस्रेसनं न कुर्वते किंवाश्लिष्यैव स्थिताः, अन्यथा तन्निद्राभङ्गः स्यात् । 'शयानं न प्रबोधयेत्' इति निषेधास्कन्दभयादिति भावः । रतिश्रमोऽत्र संचारी तदनुभावो निद्रा॥
कृतधवलिमभेदैः कुङ्कुमेनेव किंचि
न्मलयरुहरजोभिर्भूपयन्पश्चिमाशाम् । हिमरुचिररुणिम्ना राजते रज्यमान
र्जरठकमलकन्दच्छेदगोरेर्मयूखैः ।। १४ ॥ कृतेति ॥ हिमरुचिश्चन्द्रः अरुणिम्नास्तमयरागेण हेतुना रज्यमानैलोहिताय. मानैः । रऑर्दैवादिकात्कर्तरि शानच् । 'अनिदिताम्-' इति नलोपः । ब्रीणि रज्यति राजति लोहितायति चात्मन इति भट्टमल्लः । जरठस्य परिणतस्य कमलकन्दस्य छेदा इव गौरा: शुभ्राः । छेदग्रहणं धावल्यार्थम् । 'गौरः पीते सितेऽरुणः' इति विश्वः । तैर्मयूखैः कुङ्कुमेन किंचित्कृतो धवलिमभेदो धावल्यभङ्गो येषां तैरीषनग्नस्वधावल्यैः मलयरुहरजोभिश्चन्दनरेणुभिरिव पश्चिमाशां प्रेयसीनिवेति भावः । भूषयराजते । उपमालंकारः॥