________________
५२१
कविवंशवर्णनम् । .अथ कविवंशवर्णनम् ।
.
प्रशस्तिश्लोकानां मल्लिनाथकृता टीका नोपलब्धेति वल्लभदेवकृतैवात्र लिख्यतेसर्वाधिकारी सुकृताधिकारः श्रीवर्मलाख्यस्य बभूव राज्ञः। असक्तदृष्टिविरजाः सदैव देवोऽपरः सुप्रभदेवनामा ॥१॥
सर्वाधिकारीति ॥ श्रीवर्मलाख्यस्य राज्ञः श्रीवर्मलाभिधानस्य नृपतेः अखिलकर्मस्थानाधिकृतो महासेनापतिः सुप्रभदेवनामा बभूव सुप्रभदेवाभिधानोऽभूत् । किंलक्षणः सुप्रभदेवनामा । सुकृताधिकारः सुकृते पुण्ये कर्मण्यधिकारो व्यापारो यस्य स तथा धर्मेऽवसक्तः । यश्च सुकृत एवाधिकृतः स कथं सर्वाधिकारी । तथा अपरो देवः द्वितीयो राजेव तत्सादृश्यात् । राजा हि सर्वाधिकारी भवति । अथवा अपरो देवो देवसदृशः । सुरा हि सुकृताधिकृताः असक्तदृष्टयोऽनिमिषाः विरजस्का निधूलयः । वृत्तमिदमुपजातिः ॥ काले मितं तथ्यमुदर्कपथ्यं तथागतस्येव जनः सचेताः । विनानुरोधात्स्वहितेच्छयैव महीपतिर्यस्य वचश्चकार ॥२॥
काले इति ॥ यस्य सुप्रभदेवस्य काले समये यद्वचनमुपदेशवाक्यं तन्महीपतिवर्मलाख्यश्चकार अकरोत् । कः कस्यैव वचश्चकारेत्याह-तथागतस्य बुद्धभट्टारकस्य वचो यथा सचेताः प्राज्ञो जनोऽन्वतिष्ठत् । कथंचिन्मन्दादरश्चकार नेत्याह-कुतः अनुरोधाद्विना उपरोधभावमृते । कथं चकारेत्याह-स्वहितेच्छयैव स्वस्यात्मनो हितेच्छयानुकूलचिकीर्षया । यतोऽसौ सचेताः प्राज्ञः। किंलक्षणं वचः हितहेतुत्वमाह-मितं स्वल्पाक्षरम् । तथा तथ्यं सत्यम् । अपरं किंलक्षणं वचः । उदर्कपथ्यमायत्यां हितम् । 'उदकः फलमुत्तरम्' इत्यमरः । तथागतस्य बुद्धभट्टारकस्य सचेताः प्राज्ञो जनो मितं तथ्यमुदर्कपथ्यं वचो यथा स्वहितेच्छयैव करोति तत्रानुरोधात्कृत्वोभयतः किलेदमुक्तमिति ॥ तस्याभवद्दत्तक इत्युदात्तः क्षमी मृदुर्धर्मपरस्तनूजः । यं वीक्ष्य वैयासमजातशत्रोर्वचो गुणग्राहि जनैः प्रतीये ॥३॥
तस्येति ॥ तस्य सुप्रभदेवस्य दत्तक इति दत्तकाख्यस्तनूजोऽभवत् पुत्रोऽभूत् । किंलक्षणो दत्तकः । उदात्तो विपुलचित्तः । तथा क्षमी क्षमाशीलः।अपरं किंलक्षणो दत्तकः । अत एव मृदुरकठोरः। तथा धर्मपरः सुकृतैकसक्तः।यं दत्तकं जनैर्वीक्ष्य लोकैदृष्ट्वा वैयासं व्यासस्येदं कृष्णद्वैपायनोक्तमजातशत्रोर्युधिष्ठिरस्य
१ कलकत्तादिमुद्रितपुस्तकेषु 'श्रीधर्मनाभस्य' इति पाठो दृश्यते.